SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ SHREE- एतच्च द्वयोरपि प्रादुष्करणयोः षट्कायोपमर्दप्रवृत्तिदोषादिसद्भावात् साधुभिर्वर्जनीयमिति ७। ४ा कीयत्ति-क्रीतं यत्साध्वयं मूल्यादिना गृहीतं तच्चतुर्दा यथा आत्मद्रव्यक्रीतं १ आत्मभावक्रीतं २ परद्रव्यक्रीतं ३ परभावक्रीतं ४ तत्र आत्मना स्वयमेव द्रव्येणोजयन्तादितीर्थशेषरूपपरावर्त्तादिकारिगुटिका-सौभाग्यादिसंपादकरक्षादिरूपेण प्रदानतः परमावर्त्य भक्तादि गृह्यन्ते तदात्मद्रव्यक्रीतम् । दोषाश्चात्र-उज्जयन्ताद्रितीर्थशेषादिसमर्पणानन्तरमेव दैवयोगेन तस्य गृहिणो अकस्मादेव ज्वरादिमान्ये जातेऽनेन साधुनाऽहं निराकुलः सन् ग्लानीकृत इत्यादि प्रजल्पतः शासनस्य मालिन्यं स्यात् , तद्राजादिना ज्ञाते सति राजादयः कर्षणकुट्टनादिकं विदध्युः, तथाऽग्रतो मन्दः सन् देम शेशादिना समपितेन नीरोगः संपद्यते तदा चाटुकारिण एते यतयः इत्युड्डाहो लोकस्य जल्पतो भवेत् , तथा निर्माल्यादिप्रदानेन प्रगुणशरीरस्य गृहव्यापारादिप्रयोजकतया पद्जीवघातपातः कर्मबन्धः स्थादित्यादयः, तथा आत्मना खयमेव भक्ताद्यर्थ धर्मकथकवादिक्षपकतपःकविप्रमुखर्धर्मकथाापलक्षणेनाऽन्येन भावेन आक्षिप्तभ्यो | जनेभ्यो यदशनादि गृह्यते तदात्मना क्रीतम् । दोषाश्चात्र निजनिर्मलतपोनुष्ठानमलिननिष्फलीकरणादयः । तथा गृहस्थेन यतिनिमित्तं सचित्ताचित्तमिश्रमेदेन द्रव्येण कृत्वा यदशनादिक्रीतं तत्परद्रव्यक्रीतं । अत्र षट्कायविराधनादयः प्रतीता एव दोषाः । तथा परेण 'मंखेन-विज्ञानप्रदर्शनधर्मकथादिरूपेण वा भावेन परमावर्त्य यत्नतो गृहीतं यत्तत्परभावक्रीतं, इत्थंभूते परे भावक्रीते त्रयो दोषाः, एकं तावत्क्रीतं, द्वितीयं अन्यस्मात् गृहात् आनीय नीतमित्यम्याहृतं, आनीयानीय चैकत्र स्थाप्यते तत्स्थापितमिति क्रीतरीतिः । १ मंख-केदारको यः पटं पट्टिकं वा उपदर्य लोकमावर्जयति स मंखः। ACEBOES
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy