SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ज इति प्रकर्षेण, आ इति साघुदानलक्षणमर्यादया, भृतानिवर्त्तिता यका मिक्षा सा प्राभृतिका । सा च द्विविधा सूक्ष्मवादरमेदात् पत्र बादरारम्भविषया बादरा स्थूला इत्यर्थः, स्वल्पारम्भविषयतया तु सूक्ष्मा. एकैकाऽपि द्विविधा ओसकणेन अवसकणेन च, तत्र स्वत्रयोगप्रवृत्तिकालं मर्यादीकृत्य उर्ध्व परतः आरम्भस्य यत् करणं तत् ओसकणं, तथा स्वप्रयोगप्रवृत्तिकालावधेः अर्वाग् यत् आरंभस्य करणं यत् अवस्कणमभिधीयते । इह हि केनाऽपि श्रावकेण कुत्राऽपि नगरे निजापत्यस्य विवाहं कर्तुमारेमे, लग्नं च भव्यं दत्तं ज्योतिकेण, परं तस्मिन् समये अन्यत्र विहृतत्वेन तत्र गुरवो न सन्ति ततोऽसौ श्राद्धो विकल्पयति अस्मिन् विवाहलग्ने संखढ्यामनेकाशनखाद्यादिमनोरमायां क्रियमाणायां जनखाद्यमेव सर्व व्रजति न तु व्रतिनां किञ्चिदुपयोगं याति । कियद्दिनानन्तरं विहारक्रमेण श्री गुरवोऽपि आगन्तारः श्रूयन्ते तत् समय एव विवाहः कर्तुम् युज्यते येन साधूनामशनादिकं पुष्कलं ददामि इत्यादि विचिन्त्य निष्टङ्कितं लग्नात्परतो गुरूणामागमनसमये विवाहं करोति एवं च विवाहदिनस्योत्वष्कणं कृत्वा यदुपस्क्रियते भक्तादि सा बादरा ओसकणमाभृतिका १ । तथा कश्चित् श्रावकः स्वपुत्रादेर्विवाहदिनं निष्टङ्कितं तद्दिनादर्वागेव साघवस्तत्रागतास्ततोऽसौ विचारयति मया साधूनां विपुलं विशिष्टं भक्त्यादि पुण्यार्थ देयं परं विवाहादिके पर्वणि विशालं भक्त्यादि भवति परं मत्पुत्रविवाहं यदि जानंति तदा गुरवोऽन्यत्र विहरिष्यन्ति इति विचार्य तत्रस्थ एव अन्यलग्नं स्थापयति, अत्र च भविष्यत्कालभाविनो विवाहलग्नस्य अवष्कणं कृत्वा यदुपरिक्रयते भक्तादि सा बादरावष्कणप्राभृतिका २ । १ विवाहादिप्रकरणं
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy