________________
35SAALKAROES
ॐ जसंक्षिपञ्चेन्द्रियतिर्यक्षु देशविरतियुक्ताः पञ्च,युगलिषु सम्यक्त्वलम्धिश्चैका १ पर्याप्तस्थूलवायुषु वैक्रियलम्धिः १ स्थूलैकेन्द्रिय-अपर्याप्त
| पृथिव्यवनस्पत्यादिषु न कापि केचित् सास्वादनं च, अपर्याप्तविकलेषु न काऽपि लन्धिः, अपर्याप्तसुरनारकेषु सम्यक्त्वावधिलब्धी | * समुछिमेषु सूक्ष्मेषु न काऽपि लम्धिः, रत्नप्रमादागतानां तद्भवसिद्धिकाणां सर्वा अपि ॥३१॥ शर्कराप्रमादागतानां चक्रिवजे त्रिंशत् | ||३०। वालुकागतानां हरिबलवर्ज २८ भवन्ति । पङ्कादागतानां जिनवर्ज २७ भवन्ति । धूमादागतानां ऋजुमति यावत् द्वादशलब्धयो | भवन्ति तद्भवसिद्धेरभावात्१२ तमःप्रभादागतानां सम्यक्त्वदेशविरती लब्धी द्वे सर्वविरतेरभावादन्यासां प्रतिषेधः२। तमातमाप्रमा| दागतानां सम्यक्त्वलब्धिरेका नाऽन्यासंभवन्ति । वैमानिकादागतानां तद्भवसिद्धिकानां सर्वा अपि ३१॥ भवनपति-व्यन्तर-बानव्यन्तर-ज्योतिष्केभ्य आगतानां जिन हरिवर्ज २९ भवन्ति। अनुसरविजयादिचतुर्म्यः समागताना ३० तिर्यग्भ्यो नरेभ्यश्च समागतानां तीर्थकच्चक्रिहरिबलवर्जाः २७ भवन्ति । पृथव्यब्बनस्पतिभ्यः समागतानां अपि एता एव २७ लब्धयो भवन्ति । विकलेन्द्रियेभ्य आगतानां विपुलमतिप्रभृतिलन्धिसमुदायं विहाय पूर्वोक्ताः सम्यक्त्वादिद्वादशलब्धयो। मिथुननिकरेभ्य आगताना सुर| वच्चतस्रः सम्मोहि घेउब्धि सतेया ४ इत्युक्तेः। सूक्ष्मानिपवनेभ्य आगतानां न कापि लब्धयो भवन्ति । सहयातायुष्कभव्य| नराणां स्त्रीणां च प्रवरा शिवलब्धिर्भवति । एतावता विजयादिवत् युगलिनोऽपि मुक्तिगामिनः। सर्वार्थविमानात् ब्युताः चतुःकृत्वः कृतोपशमश्रेणिकाहारकशरीराः जिनाः गणधराश्च नियमेनैव तद्भवे सिद्धिगामिनो भवन्ति । लोकान्तिकदेवाः सप्ताष्टमवैर्मुक्तिगामिनस्तदधिपतयः एकावतारिणत्यादयो लब्धिविचाराः आवश्यकवृत्तिप्रवचनसारोदारकृति-लब्धिस्तोत्रादिग्रन्थान्तरादवसेयाः ७ अत्र तु ज्ञापनकृते किञ्चिल्लिखित इति । प्रवचनसारोद्धार-४२८-१३२]