SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ माSAABAR र शंखकाहलमेरीभाणटकादितूर्यसमुद्भवशब्दान् युगपदेव विशेषतया शृणोति स संभित्रोतोलब्धिमान् ॥१५॥ चक्रवर्तित्वं १६ अर्हत्त्वं १७ वसुदेवत्वं १८ बलदेवत्वं १९ एता ऋद्धयस्तु ग्रन्थान्तरात्तवर्णनतः सुबोधाः। अथ अतिशयगमनागमनलन्धिसंपन्नाश्चारणास्ते च द्विधा जवाचारणा विद्याचारणाश्च, ये चारित्रपवित्राः षष्ठायनिदानतपोविशेष| प्रभावतः सद्भूतातिशयगत्या गतिलब्धियुक्तास्ते चारणाः, ते प्रथमोत्पातेन त्रयोदशं रुचकद्वीपं यान्ति, वलमानाः प्रथमोत्पातेन नन्दीश्वरे, द्वितीयोत्पातेन यत गतास्तत्राऽऽयान्ति, ऊर्ध्वमेकेनैव मेरुशिरसि पाण्डकवनं, वलन्तो एकेन नन्दनवन, द्वितीयेन खस्थानं, ला तेषां चारित्रातिशयप्रमावतो लब्धिः स्यात्ततो लब्ध्युपजीवनौत्सुक्यप्रभावतः प्रमादसम्भवाचारित्रातिशयनिबन्धना लन्धिरपि हीयते, | ततो वलन्तो द्वाभ्यामुत्पाताम्यां स्वस्थानं यान्तीति । ये पुनर्विद्यातिशयतः अष्टमादितपोविशेषतः समुत्पन्नगत्या गतिलब्धयस्ते विद्या चारणाः, ते चोत्पावेनैकेन मानुष्योचरं, द्वितीयेन नन्दीश्वरं यान्ति, वलन्तः स्वस्थानं एकेनैव, ऊर्ध्वमेकेन नन्दनवन, द्वितीयेन पाण्डकवनं, एकेनैव खस्थान, ते रविकराऽऽतपं स्वीकृत्य गच्छन्ति । विद्याचारणा हि विद्यावशाद्भवन्ति, विद्या च-परिशील्यमाना स्फुटा स्फुटतरा जायते,ततः प्रतिनिवर्तमानस्य शक्त्यतिशयसंभवादेकेनैवोत्पातेन खस्थानमायान्ति, एवं बहुधा जलचारणाः पत्रचारणाः पुष्पचारणाः अग्निशिखाचारणाः पर्वताप्रशृङ्गसंचारिण इत्यादिका लब्धिः चारणलन्धिः ॥२०॥ पूर्वाणि चतुर्दशापि उत्पादादयस्तदध्ययनगणनशक्तिः पूर्वलब्धिः ॥२१॥ ___ गणधरलब्धिर्गणधरपदप्राप्तिस्तजन्मन्येव सिद्धेस्तीर्थकरशासनाधिपपदप्रापका प्रसिद्धा ॥२२॥ पुलाकलब्धिः पुलाकचारित्रजन्या। जिणशासणपडिणीयं, चूपिणज्जा चक्कावहिसेणं पि। कुविओ मुणी महप्पा, पुलायलद्धी संपुण्णा ॥१॥॥२३॥ CATEGOREGAO
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy