________________
माणा वा, मणकवि भरतक्षेत्रप्रमाणं, भुनाविर्ष जम्बूद्वीपमान, मनुष्यविषं समयक्षेत्रप्रमाणे शक्त्या इति जातितः, कर्मतब पत्रट्रान्द्रियतिर्यग्योनयो मनुष्या देवांधासहस्रारान्ता एते तपवरणानुष्ठानतोऽन्यतो वा गुणत आशीविषधिकादिसाच्या क्रियां कुर्वन्ति,
शापप्रदानादिना परं व्यापादयन्ति, देवास्तु अपर्याप्तावस्खायां तच्छक्तिमन्तो ज्ञेयाः, ते हि पूर्वभवे समुपाजिंताशीविषलब्धयः सहस्सारान्तर्देवेष्वपि नवोत्पन्नाः प्राग्भव विकाशी विषलब्धिसंस्कारेण अपर्याप्तापस्थायामाशीविषलम्धयो व्यवड़ियन्ते, पर्याप्तावस्थायां संस्कारस्यापि निवृत्तिरिति न तद् व्यपदेशभाजः, तेऽपि शापादिना परं व्यापादयन्ति परं न तल्लन्धिव्यपदेशो, भवप्रत्ययतस्तथारूपसामर्थ्यस्य सर्वसाधारणत्वात् , गुणप्रत्ययो हि सामथ्यविशेषो लम्धिरित्याशीविषलब्धिः १०
ओहीत्ति अवशब्दो-अधः शब्दार्थः अवो-अघोऽधो विस्तृतं वस्तु धीयते परिच्छिद्यतेऽनेनेत्यवधिः, अथवा अवधिमर्यादा रूपिष्वेव द्रव्येषु परिच्छेदकतया प्रवृतिरूपा तदुपलक्षितं ज्ञानं तस्य लब्धिः-प्राप्तिरवधिलब्धिः। सा तु भवप्रत्ययगुणप्रत्ययिकमेदाम्बा क्षयोपशमवैचित्र्यतः द्रव्यक्षेत्रकालभावमेदात्मनः असंख्येयमेदास्ते तु आवश्यकवृत्तिनन्दीवृत्यादिभ्योऽवसेयाः ११ ।
ऋजुमतिरिति ऋज्वी-सामान्यग्राहिणी मविर्घटोऽनेन चिन्तित इति, | रिउ-सामण्णं तम्मत्तग्गाहिणी रिउमइ मणोनाणं । पायं विशेषविमुहं घडमित्तं चिन्तियं मुणह १
ऋजुमति:-प्रायो बाहुल्येन विशेषविमुख-देशकालाबनेकपर्यायपरित्यक्तं परेण चिन्तितं जानाति सा अजुमतिलन्धिः १२ विपुला-विशेषग्राहिणीमतिविपुलमतिः घटः सौवर्णः पाटलिपुत्रीयः। १ भदीशीपप्रमाणं । २ अष्टमदेवलोकं यावत् ।