SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ | यवा रोगोत्रसमसमत्थाते हुन्ति ओषहीपत्ता' । ५ । आमर्शणं आमर्शः संस्पर्शनं स एव औषधिर्यस्या सा वाऽमशौषधिः, करादि| संस्पर्शमात्रादेव व्याध्यपनयनसमर्थः लब्धिलब्धिमतोरभेदोपचारात् साधुरेवाऽमर्शोषध्यादिलब्धिमानित्यर्थः, एवं शेषपदेष्विति भावनीयं इदमत्र तात्पर्यं तत्प्रभावात् स्वहस्तपादाद्यवयव परामर्शमात्रेणैवाऽऽत्मनः परस्य वा सर्वेऽपि रोगाः प्रणश्यन्ति सा आमशैषधिलब्धिः ६ खेल - श्लेष्मा तल्लब्धिमन्तो यदि आत्मानं परं वा रोगापनयनबुद्ध्या परामृशन्ति तदा तद्रोगापगमः । तथा चोक्तं योगशास्त्रान्तरलोकवृत्तौ तथाहि तथाहि योगमाहात्म्यात् योगिनां कफबिन्दवः । सनत्कुमारादेवि, जायन्ते सर्वरुकुच्छिदः ॥ १ ॥ [ मुद्रित योगाखवृत्तौ पृ० १०-२] योगिनां योगमाहात्म्यात् पुरीषमपि कल्पते । रोगिणां रोगनाशाय, कुमुदामोदशालि च ॥२॥ मलः किल समानातो, द्विविधः सर्वदेहिनां । कर्णनेत्रादिजन्मैको द्वितीयस्तु वपुर्भवः ॥३॥ योगिनां योगसंपत्ति-माहात्म्यात् द्विविधोऽपि सः । कस्तूरिकापरिमलो रोगहा सर्वरोगिणां ॥४॥ रोगिणां कायसंस्पर्शः, सिञ्चन्निव सुधारसैः । क्षिणोति तत्क्षणं सर्वानामयानामयाविनाम् ॥५॥ सर्वे एते विण्मूत्रकेशनखादयोऽवयवाः सुरभयो व्याध्यपनयनत्वादौषधयो यस्याऽसौ सर्वौषधिः, अथवा सर्वा आमर्शोषध्यादिकाः औषधयो यस्यैकस्यापि साधोः सा सर्वौषधिः तथा चोक्तं %%%%
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy