SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ ज्ञान०वि० प्रश्न०व्या० वृचि ॥८९॥ ल्लववरंकुरधरो, बहुगुणकुसुमसमिद्धो, सीलसुगंधो, अणण्हवफलो, पुणो य मोक्खवरबीजसारो, मंदरगिरिसिहरचूलिका इव इमस्स मोक्खवरमुत्तिमग्गस्स सिहरभूओ, संवरवरपादपो चरिमं संवरदारं । जत्थ न कप्पर गामागर - नगर - खेड - कब्बड - मडंब - दोण - मुह-पट्टणा - समगयं च किंचि अप्पं व बहुं व विस्तीर्ण यद्यशः - ख्यातिस्तदेव निचितो - निविडः पीनः- पीवरो महान् सुजातः - सुनिष्पन्नः स्वन्धो यस्य सः तथा पुनः कीदृशः ? पंचमहाव्रतान्येव विशालाः - विस्तीर्णाः शाला:- स्कन्धशाखाः यस्य स तथा । पुनः कीदृशः ? भावना एवानित्यत्वादि त्वक् यस्य सः | तथा, पुनः कीदृशः ९ ध्यानं च शुभयोगाश्च धर्मध्यानादि सद्वधापाराः ज्ञानं च - बोधविशेषः तान्येव पल्लववरांकुराः - प्रवालप्रवरप्ररोहांस्तान् धारयतीति यः स तथा सर्वत्र कर्मधारयः । बहवो ये गुणाः शुभफलरूपा वाऽतएव कुसुमानि तैः समृद्धो जातसमृद्धियः स | तथा, शीलं - ब्रह्म तथा ऐहिकफलानपेक्षप्रवृत्तिरेव वा सदाचारं समाधानं वा तदेव सुगन्धः -सद्गन्धो यत्र स तथा, अनाश्रवः नवकर्मानुपादानं स एव फलं यस्य स तथा, अथवा अनाश्रवो वचनस्थितत्वं तदेव फलं यस्य आज्ञाफल इत्यर्थः पुनः कीदृशः १ पुनः पुनर्वरबीजं - बोधिस्तदेव सारं मिंजालक्षणो यस्य स तथा, मंदरगिरिः - मेरुधराधरस्तस्य शिखरे या चूलिका चूडा तथा इव सा इव, अस्य - प्रत्यक्षस्य मोक्षवरे - भावमोक्षे सकलकर्मक्षयलक्षणे गंतव्ये मुक्तिरेव निर्लोभता यो मार्गः तस्य शिख| रभूतः - शेखरकल्पः कोऽसौ इत्याह संवर एव-आश्रवनिरोध एव वरपादपः पंचप्रकारस्याऽपि संवरस्य उक्तरूपस्येति ज्ञेयं अथ चरिमं संवरद्वारं उपसंहरन्नाह - चरमं संवरद्वारं- आश्रवनिरोधमुखं इति पुनर्विशेषयति यत्र संवरद्वारे - परिग्रहविरमणलक्षणे | सति न कल्पते- न युज्यते परिगृहीतुं इति संबंधः किं तत् इत्याह- प्रामागारनगरखेटक कर्बट मडंबद्रोणमुखपत्तनाश्रमगतं वा एतेषां * पश्चम संवरद्वारे परिग्रह विरतौ संवरपादपः ॥८९॥
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy