SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ सिद्धातिगुणा य ३१ जोगसंगहे ३२ कुमारत्वभणनं २४ एवमब्रह्मचारित्वेऽपि ब्रह्मचारित्वप्रकाशनम् २५ येनैश्वर्यत्वं प्रापितस्तस्यैव परोक्षे द्रव्यस्य लोभकरणं २६ यत्प्रभावेन ख्यातिं गतस्तस्य कथञ्चित् अन्तरायकरणं २७ राजासेनाधिपराष्ट्रचिंतकादेर्बहुजननायकस्य हिंसनं २८ अपश्यतोऽपि पश्यामीति मायया देवादिकमिति भणनं २९ अवज्ञया देवेषु अहमेव देव इति प्रख्यापनं ३० इति त्रिंशन्मोहनीयस्थानानि सिद्धातिगुणा य ३१ सिद्धातिगुणाश्चेति एकत्रिंशत् सिद्धानामादित एव गुणाः सिद्धगुणाः सिद्धानां वा आत्यंतिकाः गुणाः सिद्धगुणाः ते चामी -" से ण तंसे न चउरंसे ण वट्टे ण परिमंडले ण आयते " इति संस्थानपञ्चकस्य निषेधतः वर्णपञ्चकस्य गंधद्र| यस्य रसपञ्चकस्य स्पर्शाष्टकस्य वेदत्रयस्य एवं २८ अकाय: २९ असंग: ३० अरूह ३१ श्रेति यदुक्तं "पडिसेहणसंहाणे ५ वण्ण | ५ गंध २ रस ५ फास ८ वेदे य ३ पणपण दु पणट्ट तिहा इगतीसाकाय असंगऽरुहा || १ ||" अथवा क्षीणाभिनिबोधिकज्ञानावरणः क्षीणश्रुतज्ञानावरण इत्यष्टकर्मभेदानाश्रित्य एकत्रिंशद्भेदा आह च पंचणाणावरणे णव दंसणावरणे चत्तारि आउए अन्तो पंच सेसे दो दो भैया खीणाभिलावेण भणियव्वा इगतीसं ||१|| सिद्धगुणाः । ज्ञानाव (रण) ५ दर्शनाव० १९ वेदनीय २ मोहनीय २ आयुः ४ नामक० २ गोत्रक० २ अन्तराय ५ प्रकृतयः क्षीणाः इति वाच्यम् । जोगसंग ३२ अथ द्वात्रिंशत् योगसंग्रहाः - युज्यन्ते इति योगाः मनोवाक्कायव्यापारास्ते चेह प्रशस्ता विवक्षितास्तेषां शिक्षाचार्यगतानां आलोचनादिभिरपलापादिना प्रकारेण संग्रहणानि संग्रहाः प्रशस्तयोगसंग्रहत्वात् आलोचना अत एव तथोच्यते ते च १ आलोयणा णिरवलावे... बत्तीसं संगद्दा इति गाथापञ्चकम्
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy