________________
ज्ञान०वि०
प्रश्न०व्या०
वृत्ति
॥८६॥
पावसुत २९ मोहणिजे ३०
अनुद्घातिकं यत्र गुरुमासादि कल्पते २ आरोपणा च यत्र कस्मिश्चिद् प्रायश्चिते अन्यदप्यारोप्यते पर्यायछेदादिना वा इत्यष्टाविंशतिः
आचारप्रकल्पाः ॥२८॥
पावसुय २९ पावसुयति एकोनत्रिंशत् पापश्रुतप्रसंगास्ते चामी अट्ठनिमित्तंगाई दिव्वु १ प्पायं २ तलिक्ख ३ भोमं ४ च ५ सर ६ वंजण ७ लक्खणे ८ एकिकं पुण तिविहं सुत्तं वृत्ति वार्तिकं १ एवं २४ गंधव्व २५ नह २६ वत्युं २७ तिमिच्छ २८ घणुवेयसंजुत्तं २९ इत्येकोनत्रिंशत्पापश्रुतानि ॥ २९ ॥
मोहणिज ३० त्रिंशत् मोहनीयस्थानानि - महामोहबंधहेतवः, तानि चामूनि जलान्तर्बोलनेन त्रसजीवानां हिंसनं १ एवं इस्तादिना मुखादिश्रोतः पिहननं २ वर्धादिना शिरोवेष्टनं ३ मुद्गरादिना शिरोभिघातेन हननं ४ भवोदधिपतितजंतूनां द्वीपकल्पस्य प्राणिनो हननं ५ सामयै सत्यपि घोरपरिणामात् ग्लानस्यौषधादिभिरप्रतिचरणं ६ तपस्विनो बलात्कारेण धर्मासनं ७ सम्यग्दशनादि मोक्षमार्गस्य परेषां विपरिणामकरणेनापकारकरणं ८ जिनानां निंदाकरणं ९ आचार्यादेः खिंसनं १० आचार्यादीनां ज्ञानदानादिभिरूपकारिणां कार्येष्वपि अप्रतितर्पणं ११ पुनः पुनरधिकरणस्य- नृपप्रयाणकादिनादेः कथनं १२ वशीकरणादिकरणं १३ प्रत्याख्यात भोगप्रार्थनं १४ अभीक्ष्णमबहुश्रुतत्वेप्यात्मनो बहुश्रुतत्व प्रकाशनं १५ एवमतपस्विनोऽपि तपस्विताप्रकाशनं १६ बहुप्राणिनां अन्तर्धूमेनाग्निना हिंसनं १७ अकृत्यं स्वयंकृतस्याऽन्यशिरस्याविर्भावनं १८ विविधप्रकारै मायया परवचनं १९ अशुभाशयात् सत्यस्यापि समायां मृषेति प्रशंसनं २० अक्षीणकलहत्वं २१ विश्रंभोत्पादनेन परधनापहरणं २२ एवं परदारलोभनं २३ अकुमारत्वेनाप्यात्मनः
पश्चम
संवरद्वारे रागादि
आशातना
न्तानां
वर्णनं
॥८६॥