SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ BARAGAVA-90-%AR | येन स अर्थदण्डः १ यः पुनः कश्चित् सरटादिकं [ककलास] मृषकादिकं वा वनलतादिकं वा प्रयोजनं विनैव मारयित्वा छित्त्वा, त्यजति सा अनर्थक्रिया, २ । अयं सर्पादिवैरी वा अस्मान् हिंसितवान् हिनस्ति, हिसिष्यति वा मनसि विचार्य सादेवैरिणो वा यो | दण्डं आरभते स हिंसादण्डः ३ अन्याथै मृगपक्षिसरीसृपप्रभृतीनां मारणाय शरलोष्ठ्वादिकं क्षिपति अन्यं पुनर्हन्यात् अन्तराले स दण्डोऽकस्माइंडः एवं शाल्यादिकं अन्यस्मिन् छिंद्यमाने अन्यं छिंद्यादिति अकस्माद्दण्डः ४ दृष्टेवुद्धेः विभ्रमो विपर्यासो मतिविभ्रमः मित्रमपि सत् अमित्रं कृत्वा घातयेत् स दृष्टिविपर्यासो दृष्टिक्रिया, ५ आत्मार्थ परेषां वा अर्थाय यो मृषा वदति स मृषादण्डः, ६ मृषावादवत् आत्मार्थ नायकादीनां परार्थे वा अदत्तादानं कुरुते स अदत्तादानदंडकः ७ अध्यात्म मनः तत्र भवो वा बाह्यनिमित्तान-2 पेक्षः शोकादि अभिभव एतावता यस्य संमुखं न कोऽपि किञ्चिदनिष्टं जल्पति न कोऽपि विरूपं कुरुते तथापि हृदयेन किश्चिदतिशयेन में या दुर्मनाः भवति तस्याध्यात्मिकी क्रिया भवति, तस्य चत्वारि कारणानि क्रोध-मान-माया-लोभाश्चेत्यादीनि कारणानि अध्यात्मक्रि. यायां भवन्ति बाह्यनिमित्तमनपेक्षमाभ्यंतरनिष्कारणमन्तरेण क्रोधादिसमुद्भुतं दौर्मनस्यं भवति तस्याध्यात्मिकक्रियेति तात्पर्यार्थः ८६ यः पुनर्जातिमदादिना जाति-कुल-रूप-बल-श्रुत-तपो-लाभैश्वर्यमदाष्टविधलक्षणेन मानेन मत्तः सन् परं हीलेइ खिसइ गरहइ एषा| क्रिया मानक्रिया ९ तथा यः पुनर्मातापितृस्वजनादीनां अल्पेऽप्यपराधे तीव्र दण्डं कुरुते दहनांकनवधताडनादिकं तन्मित्रद्वेषवति । र अमित्रक्रियास्थानं सा अमित्रक्रिया १० मायाक्रियास्थानं यथा-मनसि अन्यत् वाचि अन्यत् आचरति अपि अन्यत् विसंवादि गुप्त- | सामर्थ्यः सन् करोति एषा क्रिया मायाक्रिया ११ इतः उर्ध्व पुनर्लोभप्रत्ययिकी क्रिया सावद्यारंभा-पापव्यापारा परिग्रहेषु गाढतराकांक्षायुक्तः, स्त्रीषु कामभोगेषु अत्यंताशक्तः, आत्मानं गाढादरेण रक्षन् अन्यसत्त्वानां वधबंधनमारणादिलक्षणानि करोति एषा
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy