________________
ज्ञान०वि०
प्रश्न०व्या०
वृत्ति
॥८२॥
भिक्खुपडिमा १२ किरियठाणा य १३
वारसय भिक्खुपडिमा - तथा द्वादश साधूनां भिक्षूणां प्रतिमा अभिग्रहविशेषास्ताश्चेमा :- मासाइ सत्तंता पढमा बीयाय तईय सप्त राइदिणा अहोराई ११ एगराई १२ भिक्खुपडिमाण बारसगं ॥ १॥ तत्रैकमासिकी द्विमासिकी, त्रिमासिकी सप्तमी सप्तमासिकी एवं सप्त अष्टमी-नवमी-दशमी प्रत्येकं सप्तरात्रिदिवसमानाः, एकादशी अहोरात्रिदिवसमाना, द्वादशी एकरात्रिमाना तद्वयाख्यानं तु पूर्वलिखितमस्ति ततो ज्ञेयम् ।
“तेरसकिरियाडाणा" त्रयोदश क्रियास्थानानि आत्मनो व्यापाररूपाः यथा
अट्ठा १ - ट्ठा २ - हिंसा ३ कम्हा ४ दिट्ठीय ५ मोस ६ दिनेय ७ अज्जप्प ८ माण ९ मित्ते १० माया ११ लोभे १२ रियावहिया १३ ॥ १ ॥
व्याख्या करणं क्रिया कर्मबन्धनिबन्धना चेष्टा तस्याः स्थानानि - मेदाः क्रियास्थानानि तानि च त्रयोदश तत्र अट्ठा गट्ठा हिंसत्ति अत्र त्रिषु पदेषु प्राकृत्वात् चतुर्थ्येकवचनस्य लोपो दृष्टव्यः ततो अर्थाय खपरप्रयोजनाय क्रिया अर्थक्रिया, अनर्थाय - स्वपर प्रयोजनाभावेन क्रिया अनर्थक्रिया, हिंसाथै क्रिया हिंसाक्रिया, तथा अकस्मात् क्रिया, तथा दृष्टिविपर्यासाऽदत्तादानक्रिया, अध्यात्मक्रिया, मानक्रिया, अमित्रक्रिया मायाक्रिया, लोभक्रिया, ईर्यापथिकीक्रिया, इति, एतानि व्याचिख्यासुः प्रथमस्थानमाह सस्थावरप्राणिषु यः कश्चित् दण्डयं दण्डयते आत्मनोऽन्यो वा प्राणी येन, तथा [ स्वशरीरादेः] खजनाद्यर्थं वा राजनियोगाद्यर्थं वा
१ प्रवचनसारोद्धार गाथा ८१८
पश्चम संवरद्वारे
रागादिअशातना
न्तानां
वर्णनं
॥८२॥