________________
- ভ-
बारस य
ण्डितमस्तकः शिखां धारयति केवलस्तादृशश्रावकः दशमप्रतिमःस्थो यदि भूम्यादौ स्थापितं निधानादिकं जानाति तदा तत्पृच्छतां सुतादीनां च कथयति अकथिते सति वृत्तिच्छेदप्राप्तेः अथ नैव जानाति तदा कथयति अहं न जानामि एतावन्मुक्त्वा नान्यत् किमपि | जल्पितुं कल्पते इति तात्पर्यार्थः, इति दशमी १० ।
अथैकादशीमाह- क्षुरमुण्डः कृतलोचो वा रजोहरणपतद्गृहधारी साधूपकरणं गृहीत्वा श्रमणो निर्ग्रन्थस्तद्वदनुष्ठान करणात् श्रमणभूतः साधुकल्पः गृहान्निर्गत्य निखिलसाधुसमाचारीचरणचतुरः समितिगुप्त्यादिसम्यगनुपालयन् भिक्षार्थ गृहकुलप्रवेशे प्रतिमाप्रतिपन्नाय श्रमणोपासकाय भिक्षां दत्तेति भाषमाणः कश्चित्पृच्छति कस्त्वं तदा प्रतिमाप्रतिपन्नः श्रमणोपासकोऽहमिति ब्रुवाणो ग्रामनगरादिषु अनगार इव मासकल्पादिना विचरत्येकादश मासान् यावदिति एतच्च उत्कृष्टतः कालमानमुक्तम् । जघन्यतः पुनरेका [दशा ]पि प्रत्येकमन्तर्मुहूर्त्तादिमाना एव तच्च मरणे वा प्रव्रजितत्वे वा सम्भवति नान्यथेति । तथा एकादशमासान् यावदित्येकादशी ११ । अथ उत्तरासु सप्तखपि प्रतिमासु आवश्यकचूया प्रकारान्तरमपि दृश्यते तथाहि - "राइभत्तपरिण्णाए पंचमी सचित्ताहारपरिण्णाए छट्ठी दिया बंभचारी परिमाण कडा सत्तमी दिया वि राओ वि बंभयारी असिणाणए वियडभोइ वोस केशमंसु रोम नहत्ति अहमी सारंभपरिष्णाए नवमी पेस [सारंभ] परिण्णाए दशमी उद्दिभत्तपाणवज्जए समणभूएत्ति एकादशी” इति दृश्यते इत्यादि भूयान् विचारस्तु ग्रन्थान्तरादवसेयः इति ।
१ प्रवचनसारोद्धार पृष्ठ २९६ तमे एतदालापको न्यस्तो