________________
ज्ञान०वि०
प्रश्न० व्या०
वृत्ति
॥७४॥
वितियं मारीजणस्स मज्झे न कहेयव्वा कहा विचित्ता विब्वोयविलाससंपउत्ता, हाससिंगारलोइयकहव्व मोहजणणी न आवाहविवाहवरकहाविघ इत्थीणं वा सुभगदुभगकहा चउस िच महिलागुणा न वन्न - देसद्वितीय भावनावस्तु-किमित्याह ? नारीजनस्य मध्ये स्त्रीपर्षदांतः नो- निषेधे कथा कथयितव्या का इत्याह- कथा - वाक्प्रपश्वरचना विचित्रा वा तत्र ज्ञानोपष्टम्भादिकारणवर्जमिति गम्यं, कीदृशी कथा वर्जनीयेत्याह
विब्बोकविलास संप्रयुक्ता-तत्र विब्बोकलक्षणं चेदं
"इष्टानामर्थानां प्राप्तावभिमान गर्वसंभूतः स्त्रीणामनादरकृतो विब्बोको नाम विज्ञेयः ॥ १ ॥” विलासलक्षणं चेदं "स्थानासनगमनानां हस्तभ्रूनेत्रकर्म्मणां चैव । उत्पद्यते विशेषो यः श्लिष्टः स तु विलासः स्यात् ॥ १॥ "
अन्ये त्वाहुर्विलासो-नेत्रजो ज्ञेयः इति । हासो हास्याभिधानो रसविशेषः शृङ्गारोऽपि रसविशेषस्तयोः स्वरूपमिदं, हासोहास्यप्रकृतिर्विकृताङ्गवेषचेष्टाभ्यो भवति परस्त्रीभ्यः स च भृता स्त्री हास्यवती । शृङ्गारोऽपि द्विधा संभोगो विप्रलम्भश्च एतत्प्रधाना या कथा, लौकिकी अविद्धजनसंबंधिनी कथा - वचनरचना सर्वमोहजनका मोहोदीरका, वाशब्दो विकल्पार्थः, तथा न-नैव । आवाहोनवपरिणीतवधूवरस्य आकारणं, विवाहश्च पाणिग्रहणं तत्प्रधाना या वरकथा - परिणेतृकथा तदुत्कर्षजनका प्रधाना वा सा कथा न कथथितव्या । तथा स्त्रीणां ताः सुभगादुर्भगा वा भवतीत्येवंरूपा न कथयितव्या कथा । चतुःषष्टिश्व महिलागुणाः आलिंगनादीनामष्टानां कर्मणां प्रत्येकमष्टाष्टभेदत्वेन चतुष्षष्टिर्जायते, गीतनृत्यौचित्यादयोऽपि नामतः चतुःषष्टिभेदा अपि संति वा वात्स्यायनप्रसिद्धा आसनादिमेदाः तत्प्रधाना कथा अपि न कथयितव्या, तथा न-नैव देशकुलरूपनामनेपथ्यपरिजनकथा वा न वाच्या स्त्रीणामिति
শ16.
चतुर्थ संवरद्वारे ब्रह्मचर्य
भावनाः
॥७४॥