________________
जेण सुद्धचरिएण भवइ सुबंभणो सुसमणो सुसाइ सुइसी सुमुणी ससंजए स एव भिक्खू जो सुद्धं चरति बंभचेरं, इमं च रतिरागदोसमोहपवडणकरं किंमज्झ पमाय- दोसपासत्थ-सीलकरणं अभंगणाणि य तेल्लमप्रधानमित्यर्थः इति काव्ययार्थः ॥ ३॥
तथा येन ब्रह्मचर्येण शुद्धचरितेन - सम्यग् आचरितेन भवति सुब्राह्मणो यथार्थनामत्वात् "अब्रह्मचारी ब्राह्मणो न" यदुचिमहे "नित्यं यश्च कलाकलापकलितः प्राज्ञोऽपि विज्ञानवान् विद्यावेदविशारदोऽपि यतिरप्याश्चर्यकृच्छास्त्रवित्, धीरोदात्तगुणैरलंकृततनुस्तादृग् पुनर्नो यदि स्वीयाक्षाणि वशीकरोति पुरुषः किं तस्य पुंस्त्वं भुवि" इति वचनात्, सुश्रमणः - सुतपाः, सुसाधुः - शोभनमुनिः, सुशोभनऋषिः - पदकाय संरक्षकः, सुम्मुनिः सम्यक्ज्ञानवान्, सुसंयतः सम्यक्य तनावान् स एव भिक्षुः- भिक्षणशीलः कर्म मेदनस्वभावः यः शुद्धं चरति ब्रह्मचर्य्यम्,
इदं अत्र पुनः कीदृशं तदाह - रतिश्च विषयाभिष्वंगः, रागश्च पित्रादिषु नेहरागः, द्वेषश्च प्रतीतः, मोहश्र - अज्ञानं, एषां प्रवर्द्धनं करोति तत्तथा, किं मध्यमस्य किं शब्दस्याक्षेपार्थत्वात् मध्यमः - प्रमादः अथवा प्रमाद एव मध्यदोषः तत्करणशीलत्वात् असारमिवासारम् तथा पार्श्वस्थानां - ज्ञानाचारादिबहिर्वर्त्तिनां साध्वाभासानां शीलं अनुष्ठानं निष्कारणं शय्यातराभ्याहृतादि पिण्डपरिभोगादि पार्श्वस्थस्य शीलकरणं पदत्रयस्य कर्मधारयः तस्य करणं- आसेवनं यत्तत्तथा एतदेव । पार्श्वस्थशीलं व्याख्यानयति, अभ्यञ्जनानि
१ सकलकलाकलापकलितोऽपि कविरपि पण्डितोऽपि हि प्रकटितसर्वशास्त्रतत्त्वोऽपि हि वेदविशारदोऽपि हि । मुनिरपि वियति विततनानाद्भुतविभ्रमदर्शकोऽपि हि स्फुटमिह जगति तदपि न स कोऽपि हि यदि नाक्षाणि रक्षति ॥१॥