SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ ज्ञान०वि० प्रश्न०व्या० वृति ॥७१॥ पंचमहव्वयसुव्वयमूलं, समणमणाइलसाहुंसुचिन्नं । वेरविरामणपज्जवसाणं, सव्वसमुद्दमहोदधितित्थं ॥१॥ तित्थकरेहि सुदेसियमग्गं, नरयतिरिच्छविवज्जियमग्गं । सव्वपवित्तिसुनिम्मियसारं, सिद्धिविमाणअवंगुदारं ||२|| देवनरिंदनमंसियपूयं सव्वजगुत्तममंगलमग्गं । दुद्धरिसं गुणनायकमेकं मोक्खपहस्स वर्डिसकभूयं ||३|| पंच महाव्रतनामकानि सुष्ठु - शोभनब्रतानि तेषां मूलमिव मूलं यत्तत् कीदृशं समणंति सभावं यथा भवति तथा, अनाविलै:अकलुषैः शुद्धस्वभावैः साधुभिः - यतिभिः सुष्ठु चरितं आसेवितं पुनः कीदृशं ? वैरस्य - परस्परामर्षस्य विरामं करणं-उपशमनप्रापणं निवर्त्तनपर्यवसानफलं यस्य तथा "मेहुणप्पभवं वेरं वेरप्पभवा दुग्गई" इतिवचनात् ब्रह्मव्रते तदुपशम इत्यागतम्, सर्वेभ्यः समुद्रेभ्यः सकाशात् महान् उदधिः स्वयंभूरमणः तद्वत् यद्दुरुत्तरत्वेन तत्र तीर्थमिव तीर्थ संसारदुस्तरणे तीर्थमिव - तरणोपायम् ||१|| तीर्थकरैः - जिनैः सुष्ठु - शोभनतया उपदर्शितमार्ग गुप्यादि तत्पालनोपायम्, पुनः कीदृशं ? नरकतिर्यक्संबंधी विवर्जितो - निषेधितो गतिर्मार्गो येन तथा तम्, सर्वाणि पवित्राणि - समस्तपावनानि सुष्ठु निर्मितानि - शोभनविहितानि साराणि - प्रधानानि येन तत्तथा, | सिद्धेर्मोक्षस्य विमानानां च स्वर्गलोकानां च अपावृतं - अवगुणीकृतं उद्घाटितं द्वारं मुखं येन " शीलव्वयधरो न दुग्गइ गमण. सीलो इति वचनात् ॥ २॥ देवानां नराणां च इन्द्रः नमस्थिता नमस्थिता नमस्कृता येन तथा तेषां पूज्यं-अर्चनीयं यत्तत्तथा । सर्व जगदुत्तमानां मंगलानां मार्गः उपायः अग्रं वा प्रधानं यत्तत्तथा, दुर्द्धर्षं परैरनभिभवनीयं सकलगुणानां नायकम् प्रधानत्वेन अथवा गुणान् नयतीति वा, तथा एकं अद्वितीयम् एतत् सदृशं नान्यद्वतमिति, मोक्षपथस्य - सम्यग्दर्शनादेः अवतंसभूतं - शेखरकल्पं चतुर्थ संवरद्वारे ब्रह्मचर्य स्वरूपम् ॥७९॥
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy