SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ SHARECTOBABA-% A चंदणाणं, हिमवंतो चेव ओसहीणं, सीतोदा चेव निन्नगाणं, उदहीसु जहा सयंभुरमणो, रुयगवर चेव मंडलिकपब्वयाणं, पवरो एरावण इव कुंजराणं, सीहोव्व जहा मिगाणं, पवरो पथकाणं चेव वेणुदेवे, धरणो जह पण्णगइंदराया, कप्पाणं चेव बंभलोए, सभासु य जहा भवे सुहम्मा, ठितिसु लवसत्तमव्व पवरा, दाणाणं चेव अभयथा ज्येष्ठं तथेदं ब्रह्मचर्यम् , चंदनानां मध्ये गोशीर्षाभिधानं चंदनं प्रधान तथेदं ब्रह्मवतम् , हिमवानिव औषधीनां मध्ये यथा हिमवान्-गिरिविशेषः औषधीनामद्भुतकार्यकारिवनस्पतिविशेषाणां उत्पत्तिस्थान तथाऽऽमोषध्यादीनामागमप्रसिद्धानामिदमेव ब्रह्मव्रतमुत्पत्तिस्थानम् , यथा निम्नगाना-नदीनां मध्ये शीतोदा प्रवरा तथेदं ब्रह्मव्रतम्, उदधिषु यथा स्वयंभूरमण:-अन्तिमः समुद्रः महत्वेन प्रवरः तथेदं ब्रह्मव्रतम् , यथा मांडलिकपर्वतानां-मानुषोत्तरकुंडलवररुचकवराभिधानानां मध्ये रुचकवर:-त्रयोदशद्वीपः प्रवरः एव तथेदं ब्रह्मव्रतं प्रवरमिति, यथा कुञ्जराणां मध्ये ऐरावणः-शक्रगजः. तथेदं ब्रह्मव्रतमिति, सिंहो यथा मृगाणां मध्ये-आटव्यपशूनां मध्ये प्रवरः-प्रधानस्तथेदं ब्रह्मव्रतम , पवकानां प्रक्रमात् सुपर्णकुमाराणां मध्ये यथा वेणुदेवः प्रवरस्तद्वगतमिदम् , धरणो यथा पन्नगेन्द्राणांभुजगवराणां राजपनगेन्द्राणां मध्ये प्रवरस्तद्वदिदं ब्रह्मव्रतम् , कल्पाना-देवलोकानां मध्ये यथा ब्रह्मदेवलोकः तत् क्षेत्रस्य महत्वात् (तद्वदिदं ब्रह्मवतम् ) सभासु मध्ये यथा सुधर्मा सभा प्रतिभवनविमानभाविनी उत्पादसभा, व्यवसायसभा, अभिषेकसभा, अलंकारसभा, सुधर्मसभा आसु पंचसु मध्ये सुधर्मासमा प्रवरा भवति तथेदं व्रतम् , स्थितिषु-आयुषः स्थितिषु मध्ये लवस(प्त)त्तमानुत्तरसुरभवस्थितिर्वा शब्दो यथार्थे प्रवरा-प्रधाना तथेदं व्रतम्, तत्रकोनपंचाशव उच्छ्वासाना लवो भवति व्रीह्यादिस्तंबलवनं वा लवः तत्प्रमाणः कालोऽपि लवः ततो लः सप्तमैः सा प्रबध्यते सा लवसप्तमेति आख्याते विवक्षिताध्यवसायविशेषस्य मुक्तिसंपादकस्यापूर्यमाणैर्या ANSARLAHABAR AR
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy