SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ समितिगुत्तिगुप्तं, झाणवरकवाड सुकयरक्खर्णमज्झप्पदिन्नफलिहं, संन्नबद्धोच्छइयदुग्गइ पहं, सुगति पहदेसगं च लोगुत्तमं च वयवयविणं पउमसरतलागपालिभूयं, महासगडअरगतुंबभूयं, महाविडिमरुक्खक्खंधभूयं, महा. नगरपागारकवाड फलिहभूयं रज्जुपिणिद्धो व इंदकेतू विसुद्धणेगगुणसंपिण, जंमि य भग्गंमि होह सहसा तथा पंचानां महाव्रतानां मध्ये सुष्ठु अत्यंतं रक्षणं - पालनं यस्य तत्तथा समितिरी (भिरी) र्यादिभिः गुप्तिभिः – मनोगुत्यादिभिः वसत्यादि (भ) नवभिर्वा गुप्तं रक्षितम्, ध्यानप्रधानं ध्यानमेव कपाटं सुकृतं सुविरचितरक्षणार्थं यस्य तत्तथा, अध्यात्म-अनुभवज्ञानरूपोपयोगः तदेव दत्तः कपाटदृढीकरणार्थं [ परिघः ] -स्फटिकोऽर्गला यस्य तत्तथा, सन्नद्ध बद्ध इव आच्छादित इव निरुद्धो दुर्गतिपथो येन तत्तथा, सुगतिपथस्य दर्शकम्, लोकोत्तम (म्) व्रतमिदं यदुक्तं "देवदाणवगन्धव्वा जक्खरक्खसकिन्नरा बंभचारिं नर्मसंति दुक्करं जे करंति ते ॥ १ ॥ पद्मः उपलक्षितं सरः पद्मसरः - स्वतः संभवो जलाशयविशेषः, तडागश्च स एव पुरुषादिकृतं (तः ) पद्मसरसोऽतिमनोहरत्वात् उपादेयत्वं तत्तुल्यो धर्मः तस्य पालिभूतं रक्षकत्वेन, महाशकटारकाः- क्षान्त्यादिगुणास्तेषां तुंबभूतं - आधारभूतं न नामिभंगे शकटा वहंति इति, महाविटपवृक्ष इव - विस्तारभूरुह इव आश्रितानां परोपकारकारित्वाद्धर्मः तस्य स्कंधभूतं तस्मिन् सति सर्वधर्मशाखिन उत्पा द्यमानत्वात् महानगरं विविधसुखहेतुत्वात् प्राकार हव, कपाट इव, परिघ इव रक्षाकरणत्वात् तद्वत् । रज्जुपिनद्ध इव- दवरक वेष्टित इव, इन्द्रकेतु: - महदुत्सवध्वजः, विशुद्धा येऽनेकगुणाः- धैर्यादयस्तैः संपिनद्धं परिवृतं यस्य तत्तथा । यस्मिन् ब्रह्मचर्ये भने स १ देवदानवगन्धर्वा यक्षराक्षसकिन्नराः, ब्रह्मचारिणं नमस्यन्ति यद् दुष्करं तत्ते कुर्वन्ति ॥१॥
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy