________________
BASEASIROEASANAPAR
तस्स इमा पंच भावणातो ततियस्स होंति परदव्वहरणवेरमणपरिरक्खणट्ठयाए, पढम देवकुल-सभाप्पवा-वसह-रुक्खमूल-आराम-कंदरागर-गिरिगुहा-कम्मउज्जाण-जाणसाला-कुवितसाला-मंडव-सुन्नघर-सु८ साणलेणआवणे अन्नंमि य एवमादियंमि दग-महिय-बीज-हरित-तसपाणअसंसत्ते अहाकडे फासुए विवित्ते पसत्थे उवस्सए होइ विहरियव्वं, आहाकम्मबहुले य जे से आसित-संमजि-ओवलित्तसोहिय-छायण-दूम
तस्य-उक्तरूपस्य इमकस्येति-अस्यैवादत्तिविरतिरूपस्य, पंचसंख्याका भावना-संयमशरीरे व्रतवासनारूपाः तृतीयव्रतस्य भवन्ति परद्रव्यहरणविरमणपरि-सामस्त्येन रक्षणार्थ, तत्र प्रथमां वस्तुविविक्तवासोनाम्नी भावनामाह-देवकुलं यक्षादिग्रह, सभामहाजनस्थानं, प्रपा-पानीयशाला, आवसथं-परिव्राजकस्थानम् , वृक्षमूलं प्रतीतम् , माधवीलतादियुक्तदंपतीरमणाश्रयो वनविशेष:आरामः, कंदरा-दरी, आकरो-लोहायुत्पत्तिः (त्तिस्थानम् ), गिरिगुफा प्रतीता, कर्म-लोहादि परिकर्म्यते-क्रियते तत् परिकर्म, उद्यानं-पुष्पादिमवृक्षसंकुलं उत्सवादौ बहुजनभोग्यम् , यानशाला-रथादीनां रक्षणगृहम् , कुप्यशाला-गृहोपकरणशाला, मंडप:यज्ञाद्युत्सवे (निर्मितवस्त्रगृहविशेषः), शून्यगृह-निर्मानुषं (निर्मानुषनिशान्तम् ), श्मशानं-मृतकजनप्रेतभूमिः, लयनं-शैलगृहम् , आपणः-पण्यस्थानम् ततः समाहार द्वन्द्वः, अन्यस्मिन्नपि-एवं प्रकारे उपाश्रये विहर्त्तव्यम् इति । किंभूते उपाश्रये ? दकमुदकम् , मृत्तिका-पृथिवीकायरूपा, बीजानि-शाल्यादीनि, हरितानि-दुर्वादीनि, साप्राणाः[पाणिनः] द्वीन्द्रियादयः तैः असंसक्तोऽनायुक्तः (तस्मिन्निति), यथाकृते-गृहस्थेन स्वार्थ निष्पादिते, प्राशुके-निर्जीवे, विविक्ते-ख्यादिदोषरहिते, अतएव प्रशस्ते-शुभनिमित्ते उपाः | श्रये-वसतौ भवति विहर्तव्यं-आश्रितव्यं शयनादि वा विधेयम् । यस्मिन् स्थाने न वसितव्यं तदाह-आधया-साधुमनस्याधाय
40339EOSEELA