________________
ASSCOORDINASIA
तत् हास्यकरणं ४ तथा परेषां विस्मयजनकैः तथा इन्द्रजालप्रभृतिभिः प्रहेलिकाकुहेटिकादिभिश्च तथाविधग्राम्यलोकप्रसिद्धैर्यत्स्वयमवि स्मयमानो बालिशप्रायजनस्य मनोविभ्रममुत्पादयति तत्परविस्मयजननं ५
अथ देवकिल्बिषीभावनामाहसुयनाणं केवलीण२ धम्मायरियाण३ संघ४साहूणं ५। माई अवण्णवाई किब्बिसियं भावणं कुणइ ॥१॥
श्रुतज्ञानस्य द्वादशांगरूपस्य १ केवलज्ञानवतां २ धर्माचार्याणां-धर्मोपदेष्तृणां ३ संघस्य-साधुसाध्वीश्रावकश्राविकासमुदायस्य४ साधूनां-यतीनां ५ अवर्णो-अश्लाघा असद् दोषोद्घाटनं वदतीति अवर्णवादी मायी च स्वशक्तिनिगृहादिना मायावी देवकिल्बिपीभावनां करोति इति वाक्यार्थः । श्रुतज्ञानस्याऽवर्णवादो यथा-पृथिव्यादयः कायाः षड्जीवनिकायाः शस्त्रपरिज्ञाध्ययनादिषु बहुशो| यथा वर्ण्यन्ते । तथा व्रतानि-प्राणातिपातनिवृत्यादीनि प्रमादा-मद्यादयः अप्रमदास्तद्विपक्षभूता भूयः भूयः कथ्यन्ते, अधिकं अधिक न किञ्चिदपि पुनरुक्तदोषः । अन्यच्च मोक्षार्थ यतितव्यमिति हेतोः किं सूत्रे सूर्यप्रज्ञप्त्यादिना ज्योति शास्त्रेण ? तथा मोक्षार्थमभ्युद्यतानां मुनीनां किं योन्यादिप्राभृतोऽपनिवन्धनेन ? भवहेतुत्वात्तस्य किं प्रयोजनमित्याद्यवर्णवादः, केवलिनामवर्णवादो यथा-किमेषां ज्ञानदर्शनोपयोगी क्रमेण भवत उत युगपत् ? तत्र यदि क्रमेणेति पक्षोऽङ्गीक्रियते, तदा ज्ञानकाले न दर्शनं दर्शनकाले न ज्ञानमिति परस्परावरणता प्राप्तव कथं निरावरणता।
अथ युगपदिति द्वितीयपक्षः कक्षीक्रियते तदप्ययुक्तः द्वयोरप्येककालत्वादेकतापत्तिः प्राप्नोति, तदा स्वखावरणक्षयात्को गुण १ प्रवचनसारोद्धार पृष्ठ १७९ गत गाथा ६४३
AAAAAAEASA