SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ज्ञान०वि० प्रश्न० व्या० वृत्ति ॥५७॥ द्विधेष्वेव - कंदर्पादिप्रकारेषु देवेषु गच्छति चारित्रलेशप्रभावात् येः पुनः सर्वथा चारित्रहीनः स भाज्यो विकल्पनीयः कदाचित्तदुचि तेषु सुरेष्वेवोत्पद्यते कदाचिच्च नारकतिर्यक्षु मानुषेष्विति एताश्च पश्चाऽपि भावनाः प्रत्येकं पश्वविधाः सत्यः पञ्चविंशत्यो भवन्ति तासां मेदानाऽऽह - प्रथमपश्चविधां कान्दपभावनामाह कंदप्पे१कुक्कुर दुस्सीलत्तेय३ हासकरणे य४ परविम्हियजणणेविअ कंदप्पोऽणेगहा तह य ॥ १ ॥ व्याख्या - कन्दर्पे १ कौकुच्ये २ दुःशीलत्वे ३ हास्यकरणे ४ परविस्मयजननेऽपि च विषये भवन्ति पञ्च प्रकाराः परमेकैका अनेकधास्तत्र उच्चैः खरेण हसनं तथा परस्परपरिहासः तथा गुर्वादिना सह निष्ठुरवाक्यं हास्यादिना स्वेच्छालापः तथा कामकथाकथनं | एवं च कुरु इति विधानद्वारेण कामोपदेशस्तथा कामप्रशंसा कंदर्पशब्देनोच्यते, कुकुचो-भांडचेष्टा तद्भावः कौकुच्यं तत् द्वेधा - कायकौकुच्यं वाक्कौकुच्यं तत्र कायकौकुच्यं यत् स्वयमेव हसन् नयनादिभिर्देहावयवैर्दास्यकारकैस्तथा चेष्टां करोति, वाक्कौकुच्यं यथापरिहासप्रधानैस्तैस्तैर्वचन जातैर्विविधजीवविरुतैर्मुखातोद्यवादितया च परं हास्यतीति २ तथा दुष्टं शीलं स्वभावो यस्य स तद्भावः दुःशीलत्वं तत्र यत्संभ्रमावेशवशात् अपर्यालोच्य द्रुतं द्रुतं भाषते यच्च शरत्काले कन्दर्पोद्धुरप्रधानाऽनस्तितबलीवर्द इव द्रुतं द्रुतं गच्छति यच्च सर्वत्राऽसमीक्षितकार्य द्रुतं द्रुतं करोति यच्च खभावस्थितोऽपि तीव्रोद्रेकवशाद्दर्पेण स्फुटं नीचवल्लवति तद् दुःशीलत्वं ३ तथा भांड इव परेषां छिद्राणि - विरुपवेषभाषणविषयाणि निरन्तरमन्वेषयन् विचित्रैस्तादृशैरेव वेषवचनैर्यद् दृष्टृणामत्मनश्च हासं जनयति १ एतदर्थो 'जो संजओ' पद्यस्य ॥ २ प्रवचनसारोद्धार पृष्ठ १७९ गत ६४२ गाथा । ३ 'हृतं' स्थाने 'द्रुतं' प्र. सारोद्धारात् स्फुटीकृतं Sex द्वितीय संवरद्वारे अशुभ पश्च विंशति भावना स्वरूपम् ॥५७॥
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy