SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ज्ञान०वि० वृत्ति इत्यवर्णवादः २ धर्माचार्याणां अवर्णवादो यथा न शोभनैतेषां जाति ते लोकव्यवहारकुशला न चैते औचित्यं विदन्ति इत्यादि विविध द्वितीय प्रश्नाव्याला गुरून् प्रति भाषते, न चैतेषां विनयवृत्त्या वर्तते तेषां ये प्रातिकूल्यभाजस्तैः सह सांगत्यमिति,तथा अहितछिद्राण्यन्वेषयन् सर्वसमक्षं संवरद्वारे गुरूणामेवाऽसतोऽपि दोषान् वदति सर्वदैव च तेषां प्रतिकूलतामाचरतीति ३ संघस्यावर्णवादो यथा-बहवः श्वापशुशृगालादीनां संघा- अशुभ पश्च स्तकोऽयं संघो भवतामाराध्य इति वदति ४ साधूनामवर्णवादो यथा-नाऽमी साधवः परस्परं सहन्ते, अत एव देशान्तरं परस्परस्पर्द्धया विंशति | भ्रमन्ति अन्यथा त्वेकत्रैव संहत्या तिष्ठेयुः, तथा मायावितया सर्वदेव लोकावजनार्थ मन्दगामिनः, महतोऽपि च प्रकृत्यैव निष्ठुरास्तदैव ॥५८॥ भावना स्वरूपम् रुष्टास्तदैव च तुष्टाः, तथा गृहिभ्यस्तैस्तैः चाटुवचनैरात्मानं रोचयन्ति, सर्वदा सर्ववस्तुसंचयपराश्चेत्यवर्णवादः ५ अन्यत्र सव्वसाहूणति पठित्वा मायीति भिन्नेव पञ्चमी भावना प्रतिपादिता यथा गृहइ आयसहावं छायेई गुणे परस्स संतेवि । चोरोव्व सब्वसंकी गूढाचारो हवइ मायी ॥१॥ अथाभियोगीभावनां पञ्चमेदामाऽऽहकोउय १ भूइकम्मे २ पसिणेहिं ३ तह पसिणपसिणेहिं ४ तहय निमित्तेणं चिय ५ पंचवियप्पा भवे साय ॥१॥डू व्याख्या-कौतुकेन १ भूतिकर्मणा २ प्रश्नेन ३ प्रश्नाप्रश्नन ४ निमित्तेन ५ पञ्चविकल्पा भवेत् सा आभियोगिकीभावना, तत्र कौतुकं बालादीनां रक्षादिकरणनिमित्तं स्वपनकरभ्रमण-अभिमत्रण-थूथूकरण-धूपन-विलेपनादि यत्क्रियते तत् कौतुकं १ तथा वसतिशरीरभाण्डकशय्याधान्यादिरक्षणार्थ भस्मसूत्रादिना यत्परिवेष्टनकरणं तभूतिकर्म २ तथा यत्परस्य पार्श्वे लाभालाभादि पृच्छयते ॥५॥ १ प्रवचनसारोद्धार १८१ पृष्ठ गत ६४३ गाथा वृत्तौ एतत्पद्यं । २ प्रवचनसारोद्धार पृष्ठ १७९ गत गाथा ६४४ BHARA
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy