________________
ज्ञान०वि० प्रश्न०व्या०
वृत्ति
114811
भावणाओ । वितियस्स वयस्स अलियवयणस्स वेरमणपरिरक्खणट्टयाए पढमं सोऊण संबरहं परमहं सुद्धं जा णिउण न वेगियं, न तुरियं, न चवलं, न कडुयं, न फरुसं, न साहस, न य परस्स पीलाकरं सावन, सबै चहियं च मियं च गाहगं च सुद्धं संगयमकाहलं च समिक्खितं संजतेण कालंमि य वत्तव्वं । एवं अणुवीतिसमितिजोगेण भाविओ भवति अंतरप्पा संजय करचरणनयणवयणो सूरो सच्चज्जवसंपुन्नो ।
कल्याणकारि, शुद्धं निर्दोषं, न्यायोपपन्नं नैयायिकं, अकुटिलं- ऋजुत्वात् नास्ति अस्मादुत्तरं प्रधानं अन्यत् किमपि, अतएव सर्वदुःखपापानां शुभाशुभकर्मणां विशेषेण उपशमनकारकं, तस्य द्वितीयव्रतस्य इमा अग्रे वक्ष्यमाणाः पञ्चभावनाः चिन्तनीयाः ।
द्वितीयव्रतस्य - अहिंसापेक्षया, अलीकवचनस्य वेरमणं - विरतिः तस्याः परि-सामस्त्येन रक्षणार्थ प्रथमभावनां अनुचिन्त्य समितियोगलक्षणसाधुः आकर्ण्य सद्गुरुसमीपे संवरद्वंति-संवरस्य प्रस्तावात् मृषावादविरमणस्य प्रयोजनलक्षणं तदेव अर्थः प्रयोजनं यस्य तथा तं परमार्थ हेयोपादेयवचनैः सुष्ठु सम्यग्तया एतद् ज्ञात्वा न-नैव निषेधे वेगवत् - विकल्पवत् संशयापन्नं न त्वरितं शीघ्रत्वेनाविमृश्य, न चापल्यं चपलस्वभाववत्, न कटुकं अर्थात् परिणामे विरसं, न परुषं कठिनं वर्णतः, न साहसं साहसप्रधानं अतर्कितं, न च | परस्य जन्तोः पीडाकरं मानसिकदुःखोत्पाद कं, सावद्यं - सपापं प्राणापहारित्वात् सत्ये नैव वक्तव्यं ? कीदृशं पुनर्वक्तव्यं तदाऽऽह-सत्यंसद्भूतार्थं हितं आयतौ हितं पथ्यं तोषोत्पादनतः, मितं परिमिताक्षरं, ग्राहकं प्रतिपाद्यार्थस्य प्रतीतिजनकं, शुद्ध-पूर्वोक्तदोषरहितं, संगतं - उपाधिरहितं, अकाहलं अमन्मनाक्षरं, समीक्षितं पूर्वं बुद्ध्या पर्यालोचितं, एतादृशं संयमवता-साधुना काले-अवसरे वक्तव्यं नाडन्यथा । एवममुना प्रकारेण अनुचिन्त्य पर्यालोच्य भाषणरूपया समित्या सम्यग्योगयुक्तो भवति अन्तरात्मा - जीवः सम्यग्यतना
द्वितीय संवरद्वारे
सत्यव्रत
भावनाः
॥५४॥