________________
नि
%
%
गधातुसरविभत्तिवन्नजुत्तं यथा-प्र-परा-सम्-अपि-अनु इत्यादिरूपाः, यथा तस्मात् हितं तद्धितं इत्यादि अर्थाभिधायका ये प्रत्ययास्ते तद्धिताः तदंत पदं तद्धितपदं यथा-अण् इकण् इत्यादिप्रत्ययाः यथा गोरपत्यं गव्यः, नामेरपत्य नामेय इत्यादिकं, तथा समसनं समासः अनेकेषां पदानामेकीकरणरूपं वा तथा अनेकास विभक्तीनामेकविभक्तीकरणं तत्पुरुष-द्वन्दू-बहुविहि-द्विगु-कर्मधारयसमासास्तेषां पदं समास
पदं यथा राजपुरुष इत्यादिरूपं, सन्धिरन्योऽन्यसंयोजना तत्पदं सन्धिपदं यथा दधीदं भवत्यत्रेत्यादिरूपं, तथा पदं विभक्त्यन्त & सुबन्तं तिङ्गन्तं च यथा घटः । हेतुः-साध्याऽविनाभूतत्वलक्षणो यथा नित्यः शब्दः कृतकत्वात् , पर्वतोऽयं वह्निमान् धूमादित्यादि | | हेतुपद, यौगिक यदा तेषामेव द्वयादिसंयोगेन एकनामकरणं यथा पद्मनाभः नीलकन्तः इत्यादिरूपं यौगिक पदं तथा उपकरोति सेनया
अभियांति अभिषेणयति इत्यादिरूपं वा यौगिक, उणादिकं यथा उकण् प्रत्ययान्तं मिक्षुः मैक्ष्यमिति तथा अत-सातत्यगमने अतति | सातत्येन नैरन्तर्येण गच्छति तान् तान् भावान् पर्यायानिति आत्मा अत्र मनिद्र प्रत्यय उणादिकः आशु खादु इत्यादि उणप्रत्ययान्तं । तथा क्रियाविधानं सा च क्रियाविधिः कान्तप्रत्ययान्तविधिरिति यथा पचति इति पाकः एवं पाठकः कुम्भं करोतीति कुम्भकारः इत्यादि सिद्धक्रियाविधिपदं अथा धातवो-भ्वादयः भू-सत्तायां अस्-भुवि हुक-करणे इत्यादिरूपाः। स्वरा-अकारादयः षड्जादयो वा क्वचिद्रसा इति पाठः तत्र रसाः शृङ्गारादयो नव यथाशृङ्गार१ हास्य२ करुणा३ रोद्र४ बीर५ भयानका ६ बीभत्सा७ भुत८ शांताश्व९ नव नाटये रसाः स्मृताः॥१॥
विभक्तयः-प्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी सम्बोधनी चेत्यादिरूपाः, सप्तवर्णाः कादयः व्यञ्जनानि, स्वराः
%
%
*
%
%A5%