________________
ज्ञान०वि०/ प्रश्न०व्या०
वृचि
॥५०॥
अभिग्गहिया भासा ८ भासाय अभिग्गमि९ बोधव्वा । संसयकरणी भासा १० वोग्गड अव्वोगडा चैव ॥२॥
व्याख्या – आमन्त्रणी यथा हे देवदच इत्यादिका १ आज्ञापनीकी कार्ये परस्य प्रवर्त्तना इदं कुरु इत्यादिरूपा २ याचनी यथा कस्यापि वस्तुविशेषस्य देहीति भाषारूपा ३ पृच्छनी अविज्ञातस्य संदिग्धस्य कस्यचिदर्थस्य परिज्ञानाय तद्विदः पार्श्वे पृच्छना ४ प्रज्ञापनी विनीतविनेयस्य-विनेयजनस्य उपदेशदानं यथा प्राणिवधानिवृत्ताः प्राणिनो भवान्तरे दीर्घायुष इत्यादिरूपा ५ याचमानस्य प्रतिषेधवचना प्रत्याख्यानी६ इच्छानुलोमा यथा- कश्चित् कश्चन कार्यमारभमाणः कश्चन पृच्छति स प्राह करोतु भवान् ममाप्येतदिष्टं इत्यादिरूपा ७ अनभिगृहीता भाषा यथा बहुषु कार्येषु समुपस्थितेषु कश्चित् कञ्चन पृच्छति किमिदानीं करोमि स प्राह- सुन्दरं ते | यत्प्रतिभासते तत्कुरु इत्यादिका ८ अभिगृहीता यथा इदानीं इदं कर्त्तव्यं इदं नेतिरूपा ९ संशयकरणी भाषा एका वाक् अनेकार्थाभिधायिनी सती परस्परं संशयं उत्पादयति यथा सैंधवमानयेत्युक्ते सैन्धवशब्दो - लवणवस्त्रवाजिषु तत्राऽनिर्द्धारिता वाकू १० व्याकृता प्रगटार्था - स्पष्टार्थरूपा ११ अव्याकृता - अतिगम्भीरशब्दार्था अव्यक्ता वा अभावार्थत्वादिति १२ द्वादशधाऽसत्यामृषा भाषा एवं द्विचत्वारिंशद्भेदास्तत्र एकेन्द्रियास्त्वभाषकाः द्वित्रिचतुरिन्द्रियेषु सत्यादिभाषाप्रतिषेधस्तेषु सम्यकूपरिज्ञानपरवश्चनाद्यभितापाऽसम्भवात्, तिर्यक्पञ्चन्द्रिजा अपि सम्यक् यथावस्थितवस्तुप्रतिपादनाऽभिप्रायेण भापन्ते नाऽपि परविप्रतारणबुद्ध्या किन्तु यदा भाषन्ते तदा कुपिता अपि परं मारयितुकामा अप्येवमेव भाषन्ते अतस्तेषामपि भाषाऽसत्यामृषा, किं सर्वेषामपि १ न, किन्तु जातिस्मरणलब्धिमतां तथाविधक्षयोपशमवशात् विशिष्टव्यवहारलब्धि प्रतीत्य तिर्यञ्चोऽपि चतुर्विधां भाषां भाषन्ते । शेषा भाषकजीवाश्चतस्रोऽपि भाषा भाषन्ते, तत्र साधूनां द्वे भाषे प्रथमान्तिमे भवत इत्यादि भूयान् विचारः प्रज्ञापनैकादशपदादवसेय इति
6
द्वितीय संवरद्वारे
सत्यादि
भाषा मेदाः
॥५०॥