SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ | जाता इति उत्पन्नमिश्रिता अनुत्पन्नैस्सह संख्यापूरणात्मिका १ एवं मरणकथने विगतमिश्रिता २ तथा जन्मतो मरणतो वा कृतपरिमाणस्य विसंवादेन च उत्पन्नविगतमिश्रिता ३ जीवमिश्रिता यथा प्रभुतानां जीवतां स्तोकानां च मृतानां शङ्खशङ्खनकादीनां एकराशौ दृष्टे यदा कश्चिदेवं वदति - अहो महानयं जीवरा शिस्तदा जीवमिश्रिता ४ यथा प्रभूतेषु मृतेषु स्तोकेषु जीवत्सु कश्चिदेवं वक्ति महानयं मृतो जीवराशिस्तदा अजीवमिश्रिता सत्यामृषात्वं चास्या मृतेषु सत्यत्वात् जीवत्सु मृषात्वादिति भावनीयं ५ तस्मिन्नेव | राशौ एतावन्तोऽत्र जीवन्त एतावन्तो मृता एवेति नियमेनाऽवधारयतो विसंवादे जीवाऽजीवमिश्रता ६ मूलकादिकमनन्तकार्यं तस्यैव सत्कैः पाण्डुपत्रैरन्येन वा केनचित्प्रत्येक वनस्पतिना मिश्रमवलोक्य सर्वेऽप्यनन्तकायिक इति अनन्तमिश्रिता ७ तथा प्रत्येक वनस्पतिसंघातमनन्तकाय मिश्रमवलोक्य सर्वेऽपि - प्रत्येक वनस्पतिरूपोऽयं पिण्ड इति वदतः प्रत्येकमिश्रिता ८ यथा कश्चित् कश्चन त्वरयन् वर्त्तमाने दिवसेऽप्येवं वदति उतिष्ठ रात्रिर्जातेति रात्रौ वा वर्त्तमानायां उत्तिष्ठोद्गतः सूर्य इति अद्धामिश्रा ९ तथा दिवसस्य रात्रेर्वा एकदेशोऽद्धा यथा प्रथमपौरुभ्यामेव वर्त्तमानायां कचित् कश्चन त्वरयमेवं वदति चल चल मध्याह्नो जात इत्यादिरूपा अद्धाद्धामिश्रिता १० । एवं दशधा सत्यामृषा । अथाऽसत्यामृषा द्वादशविधा एषा हि प्रागुक्तसत्यादिभाषा विकलत्वात् न सत्या नाऽपि मृषा नाऽपि सत्यामृषा केवलं व्यवहारमात्र प्रवृत्तिहेतुरित्य सत्यामृषा भाषा ज्ञेया यथाआमंतणी आणवणी - २ जायणी ३ तह पुच्छणीय ४ पण्णवणी । पञ्चक्खाणी भासा ६ भासा इच्छाणुलोमाय७ १ दशकालिक - हारिभद्रीपवृत्ति पृष्ठ २२०-१ नत गाथा २७६-२७७ জন-
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy