SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ MAING-40 -DHAMARCH महरिसीण य समयप्पदिन्नं, देविंदरिंदभासियत्थं, वेमाणियसाहियं, महत्थं, मंतोसहिविज्जासाहणत्थं, चारणग "भाषाणं भन्ते किमादिया कि पवहा किंसंठिया किंपज्जवसिया गोयमा भाषा णं जीवादीया शरीरप्पभवा वजसंठिया लोगपज्जवसिया पण्णत्ता भासा कओ य पभवति कइहिं समएहिं भासती भासं? भासा कतिप्पयारा ? कति वा भासा अणुमयाओ? सरीरप्पभवा भासा दोहिं समएहिं भासती भासं। भासा च उप्पयाराइं दोण्हि य भासा अणुमयाओ" २ इत्यादि विचारोऽवसेयः। ___अत्र दशवैकालिकाद्यनुसारेण सामान्यतः साधूनां द्वे एव भाषे भाषितव्ये अतिशयवतां तु यथाई लामालाभं विचार्य चतस्रो| ऽपि भाषाः अनुमताः इति बोध्यम् । तथा चतुर्दशपूर्वविद्भिः प्राभृतार्थ विदितं पूर्वगतांशविशेषाऽभिधेयतया ज्ञातं, तथा महर्षीणां समयेन-सिद्धान्तेन प्रतिज्ञातं समयप्रतिज्ञातं सिद्धांतालापकपाठरूपेण निग्गंथे पावयणमिति वचनात् , देवेन्द्रनरेन्द्रर्भाषितो जनानामुक्तोऽर्थस्तत्साध्यधर्मादिर्यस्य तत् तथा, अथवा देवेन्द्रनरेन्द्राणां भासितः प्रतिभातोऽर्थः प्रयोजनं यस्य तत्तथा अथवा देवेन्द्रादीनां भाषिता अर्थाः-जीवादयो जिनवचनरूपेण येन तत्तथा, पुनः वैमानिकानां साधित-प्रतिपादितं उपादेयतया जिनादिभिरथवा वैमानिकैः साधितं कृतं सेवितमिति, महार्थ-महाप्रयोजनं, तदेवाऽऽह-मन्त्रौषधिविद्यानां साधनं तस्य अर्थः-प्रयोजनं तस्य सत्यं विना तत् सिद्धाभावात् , तथा चारणगण-विद्याचारणा १ प्रशापनासूत्र ११ पद-१५ सूत्र पृष्ठ ७७९
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy