________________
ICINECRAF%EO
देवयाओ करेंति सच्चवयणे रताणं । तं सचं भगवं तित्थकरसुभासियं दसविहं, चोदसपुवीहिं पाहुडत्यविदितं,
सुरा सत्याद्वाक्याद् ददति मुदिताः कामितफलं अतः सत्याद्वाक्यातमभिमतं नास्ति भुवने ॥१॥ यसादेवं तस्मात् हेतोस्तं सत्यं द्वितीयं महाव्रतं भगवद् भट्टारकं तीर्थकरभाषितं-जिनैः सुष्ठुक्तं दशप्रकारं-जनपदसंमतादिमेदेन,
दशविधसत्यस्वरूपं यथाजणवय १ सम्मय २ ठवणा३ नाम ४ रूवे५पडुच्च सच्चे य ६। ववहार ७ भाव८ जोगे९ दशमे उवम्म सच्चे य१०॥१॥
व्याख्या-जनपदसत्यं यथा-कोंकणादिषु पयः पिञ्चं जलं नीरमित्यादि देशप्रसिद्धं १ । संमतसत्यं या लोकसंमतत्वेन प्रसिद्धा भाषा यथा कुमुदकुवलयतामरसानां समानेऽपि पङ्कजत्वे गोपालजनो अरविन्दमेव पङ्कजं मन्यते न शेषेषु इति संमतसत्यं २ । स्थापनासत्यं प्रतिमादिरूपा अङ्कमुद्रादिन्यासं समुपलभ्य क्रियन्ते यथा एकैकः पुरतो बिन्दुदयसहितं उपलभ्य शतं बिन्दुत्रयसहितं सहस्रं तथा विकरिकादौ [मट्टिकादौ] माषकार्षापणोऽयमित्यादिका३ । नामसत्यं यथा-कुलं अवर्द्धयन्नपि कुलवर्द्धन इत्यादिका रूपसत्यं यथा-दम्भतो गृहीतव्रतो यतिरिति भाषा ५ प्रतीतसत्यं यथा वस्त्वन्तरमाश्रित्य यथा अनामिकायाः कनिष्ठामधिकृत्य दीर्घत्वं मध्यमामधिकृत्य च हस्खत्वमिति६ व्यवहारसत्यं यथा-गिरिदह्यते गलति भाजनं, तृणादिदाहे गिरिदहति, उदके श्रवति गलति भाजनमिति प्रतीतिः ७ भावसत्यं यथा यो वर्णादिः यस्मिन्नुत्कटो भवति तेन या सत्या सा भावसत्या यथा सत्यपि पञ्चवर्णसंभवे बलाका शुक्ला शुको नील इत्यादि प्रतीतिः ८ योगसत्यं यथा-दण्डयोगाव दण्डी पुरुषः छत्रयोगात् छत्रीति ९ उपमासत्यं यथा-समुद्रवत्तडागः
१ वशवैकालिक-हारिभद्रीयावृत्ति पृष्ठ २०८ तथा प्रवचनसारोद्धार पृष्ठ २६१