SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ | सुगतिपहदेसकं, च लोगुत्तमं वयमिणं । विज्जाहरगगणगमणविज्ञाणसाहकं' सग्गमग्गसिद्धिपहदेसक, अवितर्ह तं सचं । उज्जुयं, अकुडिलं, भूयत्थं अत्थतो, विसुद्धं, उज्जोयकरं, पभासकं भवति सव्वभावाण जीवलोगे । अविसंवादि, जहत्थमधुरं पञ्चक्खं दयिवयंव जं तं अच्छेरकारकं अवत्थंतरेसु बहुए माणुसाणं । सच्चेण महास| मेव स्यातां नाऽपरस्येति भावः । सुगतिपथदेशकं च, लोके सत्यवचनमेव उत्तमं द्रव्यमिति न हि सत्यात्परं किमपि निधानमितिवच| नात्, व्रतमिदं च वक्ष्यमाणं पुनः कीदृशं ? विद्याधराणां गमनगामिन्यो या विद्यास्तेषां साधकं सत्यभाषिणामेव विद्याः सिद्ध्यन्ति इति भावः, स्वर्गमार्गस्य यावदनुत्तरप्राप्तेः सिद्धिपथस्य च देशकं - प्रवर्त्तकं यत् तत् तथा, अवितथं - वितथत्वरहितं मिथ्याभावरहितं तत् संव|रद्वारं द्वितीयं सत्यवचनं । पुनः ऋजुकं - ऋजुभावप्रवर्त्तितत्वात्, अक्कुटिलस्वरूपत्वात् अकुटिलं, भूतः सद्भूतोऽर्थः पदार्थः अभिघेयो | यस्य तद्भूतार्थ अर्थतः प्रयोजनापन्नं इति भावः, अतो हेतोर्विशुद्धं निर्दोषं, उद्योतकरं - प्रकाशकरणं, प्रभाषक- प्रतिपादकं भवति केषां ? | कस्मिन्नित्याह- सर्व भावानां - सर्वपदार्थानां जीवैरुपलक्षितो लोको जीवलोकस्तस्मिन् लोके जीवाजीवाधारक्षेत्रे प्रभाषकं-देशकं । अवि| संवादि - अव्यभिचारि यथार्थमितिकृत्वा, मधुरं - कोमलं, प्रत्यक्षेण दैवतमिव देवता इव यत्तत्तदाचर्यकारि - विस्मयकारि तदीदृशं वचनं | केषु केषामित्याह - तदेव पदं विशिष्य व्याख्यानयन्ति अवस्था - कष्टदशा तस्या अन्तराणि छिद्राणि तेषु अवस्थाविशेषेषु प्रापितेषु | बहुषु मनुष्याणां यदुक्तं सत्येनाऽग्निर्भवेच्छीतोऽगाधाम्बुधिरपि स्थलम् । नाऽसिः छिनत्ति सत्येन सत्यान्न दशते फणी ॥ १ ॥ तदेव हि सत्येन हेतुना महासमुद्रमध्ये तिष्ठति न निमज्जति, मूढं - नियतदिग्गमनं अप्रत्ययं अग्रं तुंडं अनीकं वा तत्प्रवर्त्तकजन -~
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy