________________
ज्ञान०वि०
प्रश्न० व्या० वृति
॥४६॥
णिहियं इमेहिं पंचहि वि कारणेहिं मणवयणकायपरिरक्खिए हिं, णिचं आमरणंतं च एस जोगो णेयव्वो, धितिमया मतिमया अणासवो अकलुसो अच्छिद्दो असंकिलिट्टो सुद्धो सव्वजिणमणुन्नातो, एवं पढमं संवरदारं | फासियं पालियं सोहियं तिरियं किट्टियं आराहियं आणाते अणुपालियं भवति, एवं नायमुणिणा भगवया पनवियं परूवियं पसिद्धं
सुरक्षित गुप्तं, कैः कृत्वा एभिः पञ्चभिः कारणैः भावनाभिर्भावितैः अहिंसापालन हेतुभिः मनोवाक्कायपरिरक्षितैरिति तथा । नित्यं सदा आमरणान्तं च-मरणरूपमन्तं यावत् पालनीयत्वात् एष योगोऽनन्तरोदितभावनापश्चकरूपो व्यापारी नेतव्यो बोधव्यः | केनेत्याह- भावुकेन धृतिमता - स्वस्थचित्तेन, मतिमता - बुद्धिमता किंभूतोऽयं योगः अनाश्रवः - नवकर्मानुपादानरूपः अतएव अकलुषोऽपापः शुभाध्यवसायत्वात्, अच्छिद्रः- कर्मनीरप्रवेशाऽभावात्, अपरिश्रवः - न परिश्रवतीति पापजलनिषेधत्वात्, असंक्लिष्टो-न चित्तसंक्लेशरूपः, अतएव शुद्धो निर्दोषः, सर्वजिनैः सर्वतीर्थकरैरनुज्ञातो अनुमतः, एवमीर्यासमित्यादिभावनापञ्चकयोगेन प्रथमं संवरद्वारं अहिंसालक्षणं, फासितं स्पृष्टं उचिते काले विधिना प्रतिपन्नं, पालितं सम्यग् उपयोगेन प्रतिचरितं शोधितं - अन्येषामपि तदुचितानां दानात् अतीचारवर्जनाद्विशोधितं निरती चारिकृतं, तीरितं तीरं पारं प्रापितं, कीर्त्तितमन्येषामुपदिष्टं, आराधितं - एभिरेवप्रकारैनिष्ठां प्रापितं, आज्ञया सर्वज्ञवचनेन अनुपालितं भवति पूर्वकालीन साधुभिश्वानु-पश्चात् पालितमिति केनेदं व्याख्यातमित्याह -
एवमिति उक्तरूपं ज्ञातमुनिना क्षत्रियविशेषरूपेण यतिना श्रीमन्महावीरेणेत्यर्थः ।
किंविधेन ? भगवता - ऐश्वर्यादिभगार्थ षट्कयुक्तेन प्रज्ञापितं - सामान्यतो विनेयेभ्यः कथितं, प्ररूपितं - छेदभेदकथनेन, प्रसिद्धं
प्रथम
संवरद्वारे शय्यातर
| पिंडदोषाः
॥४६॥