________________
तथा च वसति दुर्लभा भवति येन किल वसतिर्देया तेन आहाराद्यपि देयमिति गृहिणां भयोत्पादनात् तथा दानभयात् विच्छेदो |भवेत् वसतिदानस्येति गम्यं । तथा पूर्वपश्चिमजिनौ [ मुक्तत्वा ] द्वाविंशतिजिनमध्यम तीर्थकृद्भिः विदेहजैश्च महाविदेहक्षेत्रसमुत्पन्नैः सर्वैरपि तीर्थकरेरेव आधाकर्मादि निषिद्धं मध्यमजिनानां तु यदर्थं कृतं तत् तस्यैवाऽकल्प्यं शेषाणां तु कल्पत एव इत्यादि विमर्शः, परं सागारिकस्य शय्यातस्य पिंडस्तु सर्वैरपि निषिद्ध एवेति । अयं सागारिकपिण्डो द्वादशधा अशनपानखादिमखादिम ४ रजोहरणवस्त्रपात्र कम्बलशूची पिप्पलककर्णशोधननखरदन १२ मेदात् निषिद्ध एवेति तृणडगलादिकस्त्वपिण्डः, यदुक्तं
तृणडगलछारमल्लगसेज्जासंथार पीढलेवाई । सिज्जायरपिंडो सो न होइ सेहो सउवहिओ ॥ १ ॥
यदि शय्यातरस्य पुत्रः पुत्री वा वस्त्रपात्रादिसहिता वा प्रव्रजेत्तदा शय्यातरपिण्डो न भवतीति । तथा साधुसमुदायस्य बाहुल्यात् प्रथमालिकापानकाद्यर्थं वा शय्यातरगृहे पुनः पुनः प्रविशत्सु साधुषु सत्सु शय्यातरः आधाकर्मादिदोषानामपि कारणात्, प्रथमालिका इति कोऽर्थः क्षुल्लकग्लानादीनां प्रथमत एवं भोजनं पानकं प्रतीतं, तथा निरन्तरस्वाध्यायकरणेन च चारित्रेण वाssवर्जिताः सागारिका दोषमपि कुर्युरितिहेतोर्न ग्राह्य इति शय्यातरः कियत्कालं यावत् अपवादतो भवेत् तदाऽऽह
अयं चाहोरात्रात्परतोऽशय्यातरः, इदमत्र हृदयं यत्रोषितास्ततः स्थानात् यस्यां वेलायां निर्गता द्वितीयदिने तावत्वेलायाः परतो - शय्यातरः, तथाऽपवादतो ग्लानत्वादिकारणे शय्यातरपिण्डोऽपि ग्राह्यते, अगाढे पुनः शीघ्रमेव शय्यातरपिण्डग्रहणं क्रियते, निमन्त्रणे च शय्यातरनिर्बन्धे सकृत् तं गृहीत्वा पुनः पुनः प्रसङ्गो निवारणीयः, दुर्लभे च क्षीरादिद्रव्ये आचार्यादीनां प्रायोग्येऽन्यत्रालभ्यमाणे तत्रैव गृह्णन्ति, अशिवे - दुष्टव्यन्तरोपद्रवादिके अवमौदार्ये दुर्भिक्षे वा अन्यत्र भिक्षायामलभ्यमाने शय्यातरगृहेऽपि भिक्षां