SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ॐॐAAAA | सर्वानपि परिहरत इति तदा एकं शय्यातरं स्थापयित्वा शेषगृहेषु भिक्षा गृहन्ति, यद्वा बहवस्तत्र साधवस्ततो यदि सर्वेऽपि संस्त रन्ति तदा सर्वानपि शय्यातरान् कुर्वन्ति, असंस्तरणे चैकं शय्यातरमिति ग्रहणविधिश्वाऽयं यथा द्वयोः शय्यातस्योरेकान्तरभिक्षाग्र| हणवारको भवति त्रिषु शय्यातरेषु तृतीयदिने एवं वारकेण भिक्षां गृहन्तीति अथाऽयं शय्यातरः कदा भवति तदाऽऽह कस्मिंश्चित् साथै ग्रामादौ वा उषित्वा सुप्त्वा इत्यर्थः, चरमं प्राभातिकमावश्यक प्रतिक्रमणमन्यत्र स्थानान्तरे गत्वा यदि कुर्वन्ति तदा द्वावपि शय्यातरौ भवतः, इदं च प्रायसः सार्थादौ संभवति आदिशब्दाचौरा 3 वस्कन्दभयादिपरिग्रहः । अन्यथा तु प्रकारान्तरसद्भावे भजना शय्यातरस्य विकल्पना यस्य गृहे स्थिताः स च अन्यो वा शय्यातरोटू भवति, भजनामाऽऽह यदा रात्रेश्चतुरोपि प्रहरान् जाग्रति साधवः आवश्यकमन्यत्र कुर्वन्ति तदा मूलोपाश्रयस्वामी शय्यातरो न भवति । किन्तु सुप्ते वा | शयने वा प्राभातिकावश्यके वा शय्यातरो भवति अयं भावार्थः शय्यातरगृहे सकलां रात्रिं प्राक् जागरित्वा प्रामातिक प्रतिक्रमणम-12 न्यत्र कुर्वन्ति तदा [मौलः शय्यातरो न भवति किन्तु यद्गृहे प्रतिक्रमणं कृतं स एव, अथ शय्यातरगृहे रात्रौ सुप्त्वा जागरित्वा वा है प्राभातिकप्रतिक्रमणं कुर्वन्ति तदा] स एव शय्यातरो भवति, यदा तु वसतिसंकीर्णतादिकारणादनेकोपाश्रयेषु साधवस्तिष्ठन्ति तदा | यत्राचार्यः स्थितः स एव शय्यातरो नाऽन्य इति। ननु साधूनां गृहमर्पयित्वा गृहेशो यदा देशान्तरं ब्रजति तदा स शय्यातरो भवति वा न वेति प्रश्नः, कश्चिद् गृहस्थः साधूनां & २ प्रवचनसारोद्धारवृत्तिगता पतत्पंक्तिः स्वलिता दृश्यते
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy