________________
96-MORNAMASTERRANGE
रागामिना निर्दग्धं चरणेन्धनं, तथा यथा दग्धेन्धनं धूमे गते सति अङ्गार इत्युच्यते, एवमिहाऽपि चरणेन्धनं रागाग्निना निर्दग्धं सव | अङ्गार इत्युच्यते, ततश्च भोजनगतविशिष्टगन्धरसास्वादवशेन संजाततद्विषयमूर्छस्य सतः अहो मृष्टं अहो सुसंस्कृतं अहो स्निग्धं K| अहो सुपक्वं अहो सुच्छिन्नं सुहृतं अहो सरसं वेत्यादि प्रशंसातः सहाङ्गारेण यद्वर्तते तत्साङ्गारमिति २ ___इदानीं धूमदोषमाऽऽह-द्वेषेण अन्नस्य तदायकस्य वा निन्दात्मकेन अमनोज्ञममधुराहारं भुञ्जानश्चारित्रं-चरणं सधूमकं करोति | निन्दात्मकं कलुषस्वभावं धूमसन्मिश्रत्वात् , अत्राऽप्ययं भावार्थ:-इह द्विविधो द्रव्यतो भावतश्च तत्र द्रव्यतो अर्घदग्धानां काष्ठानां | सम्बन्धी, भावतो द्वेषाग्निना दह्यमानस्य चरणेन्धनस्य सम्बन्धी कलुषभावो-निन्दात्मकः, ततो यथाऽऽङ्गारत्वमप्राप्तं ज्वलदिन्धन- | | धूमं कथ्यते एवं द्वेषाग्निना दह्यमानं चरणेन्धनमपि साधूनां सधूमं ततश्च भोजनमपि गतरूप-विगंध-विरसास्वादतो जाततद्विषयव्य8 लीकचित्तस्य सतो अहो विरसं विगन्धं अपक्वमसंस्कृतमलवणमेवेति निन्दावशात् धूमेन सह वर्त्तते यत् तत् सधूमं चारित्रमिति ।
अधुना कारणमाह-वेयणवेयावच्चे इत्यादीनि षद् कारणानि प्रत्येकं भोजनेऽभोजने च ज्ञेयानि, तथा क्षुद्वेदनोपशमनाय भुजीतेति सर्वत्र क्रियासम्बन्धः बुभुक्षा हि न शक्यते सोढुं सर्ववेदनातिशायित्वाबृक्षायाः 'छुहा समा चेयणा नत्थी ति वचनात् तथा वैयावृत्त्यकरणार्थ बुभुक्षितोऽपि हि गुर्वादीनां वैयावृत्त्यं कर्तुं न शक्नोति । तथा इर्यासमितिः सैव निर्जरार्थिभिरय॑मानतयाऽर्थस्तस्मै बुभुक्षापीडितस्य हि चक्षुामपश्यतः कथमीर्यासमितिपरिपालनं स्यात् , तथा संयमार्थाय क्षुधातॊ हि प्रेक्षा. १ पिं० नि० गाथा ६६२ वेयणवेयावच्चे इरियहाए य संजमट्ठाए तह पाणवत्तियाए छठं पुण धम्मचिंताए २ पंथ समा नत्थि जरा दारिदसमो य परिभवो नत्थि । मरणसम नत्थि भयं छुहा समा वेयणा नस्थि ॥१॥ पिं०नि० पृ० १७७
CARRIA