SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ | पयत्तेण ववगयसंजोगमणिगालं च विगयघूमं पुनः कीदृशं ? व्यपगत संयोजनादो परहितं, अर्निंगालं विगतरागं, विगतधूमं - द्वेषरहितं यदुक्तं रागेण सइंगालं दोसेन सधूमगं वियाणाहिति वचनात् । अथ किञ्चित् संयोजनादि पञ्चग्रासैषणा दोषानाऽऽह - तत्र प्रथमं संयोजना पश्चकापेक्षया संयोजनं संयोजना उत्कर्षोत्पादनं - द्रव्यस्य द्रव्यान्तरेण मीलनं सा द्विधा उपकरणविषया भक्तपानविषया च, एकैकाऽपि द्विविधा बाह्याभ्यन्तरभेदभिन्ना । तत्र उपकरणविषया बाह्यसंयोजना यथा कश्चित् साधुः कुत्राऽपि गृहे भव्यं चोलपट्टादिकं प्राप्य पुनर्विभूषार्थ तदुचितं पट्टीप्रभृतिकं मार्गयित्वा वसतेर्बहिरेव प्राषृणोमीति । अभ्यन्तरा तु वसतौ निर्मलचोलपट्टादिकं परिधाय विभूषानिमित्तं तदनुरूपामेव निर्मलां नर्मादिपट्टीं परिदधाति । तथा मिक्षार्थ हिण्डमानः सन् क्षीरादिकं तथा अनुकूलद्रव्यैः खंडादिभिस्सह रसगृध्रया विशेषरसोत्पादनाय बहिरेव संयोजयति एषा बाह्यभक्तपानविषया संयोजना | अभ्यन्तरा पुनर्यद्वसतावागत्य भोजनवेलायां संयोजयति । सा च त्रिधा, पात्रकषिषया कवलकविषया मुख| विषया च, तत्र भोजनसमये यत् पायसादिकं खण्डादिना यद्रोचते तद्रसगृद्ध्या तेनैव सह एकस्मिन् पात्रे संयोजयति सा प्रथमा, यदा तु हस्तगतमेव कवलतया सुकुमारिकादि खण्डादि सह संयोजयति सा द्वितीया । यदा पुनर्मण्डकादिकं मुखे प्रक्षिप्य पश्चात् गुडादिकं प्रक्षिपति तदा तृतीया । अपवादश्चात्र एकैकं साधुसंघाटकं प्रति प्रचुरघृतादिप्राप्तौ सत्यां भोजनाऽनन्तरं यदि कथमपि यदुद्धरितं भवति तद् उद्धरित घृतादिनिर्गमनार्थं खण्डादिभिरपि संयोजना भवति तत् न दोषाय । उद्धरितं हि घृतादि न खण्डादिकमन्तरेण मण्डकादि १ पिंडनियुक्ति ६५९ । २५० नि० पृ० १७२
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy