SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ज्ञान०वि० प्रश्न० व्या० वृति ॥४०॥ गुरुजणेणं उपविट्ठे संपमज्जिऊण ससीसं कार्य तहा करतलं अमुच्छिते, अगिद्धे, अगढिए, अगरहिते, अणज्झोववण्णे, अलुद्धे, अणुतट्ठिते, असुरसरं अचवचवं अदुतमविलंबियं अपरिसार्डि आलोयभायणे जयं स्थापितं मनो येन गुरुणा दत्ते अदत्ते संप्रदायादीनां अस्था[ता]पितमना इत्यर्थः । अथ श्रद्धा-तत्त्वार्थश्रद्धानं संयम - योगविषयो वाऽभिलाषः, संवेगश्च - मोक्षमार्गाभिलाषः संसारभयं वा निर्जरा-कर्मक्षपणं मनसि यस्य स श्रद्धासंवेग निर्जरमनाः । प्रवचनवात्सल्यभावितमना वा, उत्थाय च प्रहृष्टतुष्टोऽतिशयप्रमुदितः यथा रत्नाधिकं यथाज्येष्ठं निमन्त्र्य - आहूय आमन्त्र्य साधवे साधून् साधर्मिकान्-श्रद्धाप्रवचन लिङ्गादिभिः समानान्-धर्माचारान् भावतश्च भक्तस्तद्गुणानुमोदी वितीर्णे दत्ते च गुरुजनेन भुंक्ष्व त्वमिदमशनादीन् अनुज्ञाते च सति [भक्तादौ], गुरुणा उपविष्टे दत्तासने सौम्य अत्र तिष्ठ इत्यनुज्ञया उपविष्टः संप्रमृज्य च प्रतिलेख्य मुखवखिकारजोहरणादिना वा सशीर्ष - समस्तकं सकायं - सनखकरतलं च अमूच्छितः - आहारविषये मूढिमानं न गतः, अगृद्धः - अप्राप्तेषु रसेषु अनाकांक्षावान्, अग्रथितः - रसानुगतरसैः, अगर्हितः - आहारविषये अकृतगर्हः, अनभ्युपपन्नो-न रसेषु एकाग्रमनाः, अलुब्धो - लोभरहितः नोदरपिशाच इत्यर्थः, न आत्माशरीररूपस्तस्य अर्थो यस्येत्यनात्मिकार्थः परमार्थकारीत्यर्थः । कया रीत्या ? आहारमाहारयति तदाऽऽह असुरसरं एवंभूतं शब्दरहितं । अचचचबेति शब्दरहितं । अहृतं - अनुत्सकं अविलम्बितं-न अतिमन्दं अपरिशाटं परिशाटि दोषवर्जितं अपरिशाटि भुंजिजा इति, अग्रेतनपदेन सह क्रियायोगः । आलोकमुखे भाजने पृथुलमुखे अथवा आलोके प्रकाशे नाऽन्धकारे, पिपीलीकावालादीनामनुपलम्भात्, तथा भाजने पात्रे, पात्रं विना जलादिसंपतितसच्चादर्शनात्, यतं मनोवाक्कायसंयमत्वात् प्रयत्नेनादरेण १ सरस राग नहीं इति भाषा २ बचबाट नहीं भाषा प्रथम संवरद्वारे भावनाः ॥४०॥
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy