SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ 6 - SINGAAMKARAN गमणागमणातिचारे पडिक्कमेपडिकते, आलोयणदायणं च दाऊण गुरुजणस्स गुरुसंदिट्ठस्स वा जहोवएसं निरइयारं च अप्पमत्तो, पुणरवि असणाते पयतो, पडिक्कमित्ता पसंते आसीणमुहनिसन्ने मुहुत्तमेत्तं च झाणसुहजोगनाणसज्झायगोवियमाणे, धम्ममणे, अविमणे, सुहमणे, अविग्गहमणे, समाहियमणे, सद्धासंवेगनिजरमणे, पवतणवच्छलभावियमणे उढेऊण य पहतुढे जहारायणियं निमंतइत्ता य साहवे भावओ य विइण्णे य गुणोत्तरगुणरूपं तेन चरितः सेवितः विनययोगयुक्तः सम्यग् प्रयोगे व्यापारः संयमलक्षणस्तेन युक्तः। भिक्षुः-साधुः भैक्ष्यषणाया योग| युक्तः, सामुदायिक अटित्वा भिक्षाचर्या गोचरं उंछमिव उंछनं अल्पाल्पगृहीतभैक्ष्यं गृहीत्वा आगतः गुरुजनस्य पाच-समीपं गमना गमनाऽतिचाराणां प्रतिक्रमणेन इर्यापथिकीदंडकेन प्रतिक्रान्तो निवर्तितपापः। आलोचनं-अयथा गृहीतभक्तपाननिवेदनं तयोरुपदर्शनं |च कृत्वा गुरुजनस्य-गुरुसंदिष्टस्य वा वृषभस्य यथोपदेश-उपदेशाऽनतिक्रमेण निरतिचार-दोषवर्जनेन अप्रमत्तः, पुनरपि अनेषणाया। अपरिज्ञाताऽनालोचितदोषरूपायाः प्रयत:-प्रयत्नवान् इति प्रतिक्रम्य च कायोत्सर्गकरणानन्तरं कीदृशः१ प्रशान्तः-अनुत्सुकः, आसीनः-उपविष्टः सुखनिषण्णः अनाबाधितवृत्त्या पदत्रयस्य कर्मधारयः। ततो मुहूर्तमानं च कालं ध्यानेन धर्मादिना शुभयोगेन-संयमव्या| पारेण गुरुविनयकरणादिना ज्ञानेन-ग्रन्थानुप्रेक्षणरूपेण स्वाध्यायेन-अधीतगुणनरूपेण वा गोपितं-विषयान्तरगमनेन निरुद्धं मनो येन स तथा। अतएव धर्मे-श्रुतचारित्ररूपे मनो यस्य स तथा श्रुतमना इत्यर्थः। तथा अविमनाः-अशून्यचित्तः, शुभमनाः-असंक्लिहै टचेताः, अविग्रहमनाः-अकलहचेताः अव्युद्ग्रहमना वा-अविद्यमान-असदभिनिवेश इत्यर्थः। सम-तुल्यं रागद्वेषानाऽऽकलितं आहितं| उपनीतं आत्मनि मनो येन स समाहितमनाः अथवा शमेन-उपशमेन च अधिकं मनो यस्य स समाधिकमनाः वा शमे-उपशमे %%ari CALOR
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy