________________
ORMA-
न्तव्या अत्र तु सुखावबोधार्थ लेशमात्रतो व्याख्याताः।
अर्थतेषामविशोधिविशोधिकोटिविवेचनार्थमाह-सर्वा अपि पिण्डैषणा नवसु कोटिसु विभागे अवतरन्ति ता एवाऽऽह न स्वयं हन्ति, न स्वयं क्रीणाति न च पचतीति त्रयं, एवं का राप]णानुमतिभ्यामपि यथा नाऽन्येन घातयति न क्रीणापयति न पाचयति तथा नाऽपरेण हन्यमानं क्रीयमाणं पच्यमानमनुमोदते मीलिताश्चैता नवकोटयः एभिनवभिः पदैः पिण्डविशुद्धिः सर्वाऽपि संगृह्यते | इति भावार्थः । इह पूर्व षोडशविध उद्गमदोष उक्तः स च सामान्यतो द्विधा भवति तद्यथा-विशोधिकोटिरूपः अविशोधिकोटिरूपश्च,
तत्र यद् दोषदुष्टे भक्ते तावन्मात्रेऽपनीते सति शेषं कल्पते स दोपो विशोधिकोटिः शेषस्त्वविशोधिकोटिः। तत्र ये दोषा अविशो. | धिकोटिरूपा ये च विशोधिकोटिरूपास्तानाह
तंत्र आधाकर्म सप्रमेदं, उद्देशिकस्य विभागौदेशिकस्य चरमत्रिकं कर्मभेदसक्तमन्त्यमेव भेदत्रयं, पुतिर्भक्तपानरूपा, मीसत्ति मिश्रजातं पाखण्डिगृहमिश्र साधुगृहमिश्र, चरमा अन्त्या बादरा इत्यर्थः[A] प्राभृतिका, अध्यवपूरस्य स्वगृहपाखण्डिमिश्रं स्वगृहसाधुमिश्ररूपमन्त्यद्वयं एते उद्गमदोषा अविशोधिकोट्यः । अस्यां चाविशोधिकोट्यावयवेन शुष्कसिक्थादिना तथा भक्तादिना लेपेन वल्लकचणकादिना अलेपेन संस्पृष्टं यदशुद्धभक्तं तस्मिन् उज्झितेऽपि यत् अकृतकल्पत्रये पात्रे शुद्धमपि भक्तं पश्चात् परिगृह्यते तत्पूतितरमवगन्तव्यं । शेषा ओघौद्देशिकं नवविधमपि च विभागौदेशिकमुपकरणपूतिर्मिश्रस्यायो भेदः। स्थापना सूक्ष्मप्राभृतिका प्रादुष्करणं
१ पिण्डनियुक्ति पृष्ठ ११६ तो पृष्ठ ११९ यावत् कोटिवर्णनं २ पिण्डनियुक्ति पृष्ठ ११६ तमे ३९३-३९४-३९५ गाथावृत्तौ सविशेषवर्णनं
KARAN