________________
BASAHEGORN
रतश्च परिभाव्य परिहर्त्तव्याः ६ षष्ठः।
उम्मीसत्ति उन्मिथ-सचित्तसंमिश्रं-इह कश्चित् गृहस्थः केवलं वस्तु इदं वतिने वितीर्यमाणमल्पं स्यादिति लजया पृथग्वस्तु| द्वयदाने वेला लगति इत्यौत्सुक्येन मिलितं वस्तुद्वयं मिश्रं भवतीति भक्त्या तथा सचित्तभक्षणभङ्गो भवत्वेतेषां इति प्रत्यनीकतया,
अनाभोगेन वा साधूनां कल्पनीयतया उचितपूरणादिकं अकल्पनीयतया मुनीनामनुचितेन करमन्दकदाडिमकुलिकादिना मिश्रयित्वा | यद् ददाति तन्मिश्रम् । अत्र च कल्पनीयाऽकल्पनीये द्वे अपि वस्तुनी मिश्रयित्वा यद् ददाति तदुन्मिश्रं, संहरणं तु यद्भाजनमदेयं वस्तु तदन्यत्र क्वाऽपि स्थगनिकादौ संहृत्य ददाति तदुन्मिश्रसंहृतयोर्भेदः ७।
अपरिणयत्ति अपरिणतं-अप्रासुकीभूतं तत्-ओघतो द्विधा द्रव्यतो भावतश्च पुनरेकै द्विधा दावृविषयं गृहीविषयं च । तत्र | द्रव्यरूपमपरिणतं यत् पृथिवीकायादिकं खरूपेण सजीवं । यत्पुनर्जीवन विप्रमुक्तं तत्परिणतमिति। तच यदा दातुः सत्तायां वर्तते तदा दातृविषयं, यदा तु गृहीतुः सत्तायां तदा गृहीतविषय, तथा द्वयोर्बहूनां वा साधारणे देयवस्तुनि यद्येकस्य कस्यचिद् ददामीत्येवं | भावः परिणमति न शेषाणामेतद्भावतो दाविषयं अपरिणतं साधारणानिसृष्टं दायकपरोक्षत्वे, दातृभावापरिणतं दायकसमक्षत्वेत्वनयोर्मेदः । तथा द्वयोः साध्वोः संघाटकरूपेण भिक्षार्थ गृहं गतयोरेकस्य साधोरेतल्लभ्यमानमशनादिकं शुद्धमिति मनसि परिणतं तद् द्वितीयस्य गृहीतविषयभावापरिणतं, एतच्च साधूनां न कल्पते शङ्कितत्वात् कलहादिदोषसम्भवाच्च ८॥
१ अत्र उन्मिश्रदोषवर्णने पिण्डनियुक्तिगाथा ५९६ वृतौ वर्णिताभोगानाभोगवर्णनं सङ्कीर्ण जातं प्रतिभाति २पिं०नि०पृ० १६५-१६७ यावत् वर्णनम्