________________
श्रीराजशेखरकृते
संघ महोत्सवे
दानात् मनोरथ सिद्धिः स्तुतिः लक्ष्म्याः
स्थैर्य
॥ ५९॥
द्या भवन्ति उत्सवाः, अतस्तस्या एवागताया गृहपूजां वितन्वन्ति महान्तः, पूजया तुष्टा देवी तस्य गेहं न मुञ्चति, अत उच्यते
औदार्य कनकासनं सुवसनान्यक्रौर्यलज्जर्जुताः, श्रद्धाचन्दनलेपनं सुविनयन्यायौ मणीकुण्डले। मुक्तावल्लरिचिती वितरणं कोटीरमेवं श्रियं, देवीं गेहगतां कृती महति यस्तस्य स्थिरा सा रसात् ॥१६॥
ये शूरा ये च विद्वांसो, ये च सेवाविचक्षणाः। सर्वे ते धनवृद्धस्य, द्वारे तिष्ठन्ति किङ्कराः॥१॥ धनं कारणं, येनाविद्यमाना अपि गुणाः प्रकटीभवन्ति, विद्यमाना अपि यान्ति यस्याभावात्, “धनमर्जय काकुत्स्थः, धनमूलमिदं जगत् । अन्तरं नैव पश्यामि, निर्द्धनस्य मृतस्य च ॥१॥ लक्ष्मीः पूर्वपुण्यरज्ज्वाकृष्टा मम गेहं प्राप्ता, परं-या यस्य प्रकृतिः स्वभावजीनता कष्टेन सा त्यज्यते, इतीयं कमला क्षणं कुमुदे क्षणं चन्द्र क्षणं सूर्ये मान्धात्रादीनां गृहे चिरं नो वासः, अतोऽस्या अनुवृत्तिरेव क्रियते इति संचित्योवाच
लक्ष्मीर्मे सुकृतेन यद्यपि गृहे न्यस्ता तथाऽप्येतया, नानास्थाननिवासशीलमनवं दुर्मोचमित्यग्यूधीः। सत्रार्हद्गृहबिम्बपुस्तकवसत्युद्यापनाचैरिदं, तस्याः पुष्यति वश्यबीजमपरं भावानुवृत्तेन हि ॥ १७॥
महाकुले जलधावुत्पन्नः सर्वलोकप्रियः शीतलकरः कलावान् तेन चन्द्रमसा सार्द्ध उपमां दातुं विचारयामः, परं तेनापि सह न समीचीना राजते, दातरि विशेषदर्शनात , यतः
सङ्घाम्मोधिविवर्द्धनः शुभकरः सदंशपूर्वाचलोद्भिन्नः सज्जनकैरवप्रमदनः सौम्यस्तमःस्तोमहा। सम्प्रीतार्थिचकोरकः सुतसुहन्नक्षत्रतारागृहो, दातेन्दुर्न पुनः क्षयी न च जडो नान्तः कुरङ्गोऽद्भुतम् ॥ १८॥
॥ ५९॥