________________
श्रीहर्षपुरी
सावतरणा दानषट्त्रिंशिका
राजशेखराचायकृता
॥५४॥
पित्रोर्वत्सलता गुरोर्बतभृतः शिक्षाप्रसादः प्रभोः, सद्वृत्तं सुतकल्पभृत्यसुहृदां तत्तत्क्रियाभिग्रहाः। छन्दोज्योतिषतर्कलक्षणकथौचित्यं चिरं धार्यते, सर्व सत्पुरुषैः क्षणापि पराग् दत्तं तु नेत्यद्भुतम् ॥२॥
पुरुषाहीनाः सेवका अपिकर्मकरा अपि निर्द्धना अपि कर्म कुर्वाणाः सर्वाणि सौख्यानि प्राप्नुवन्ति, परं श्रीभरतादिभिः सत्पुरुषैः समयं प्राप्य लोकोपकारः कृतः, तेन चासंसारं विश्वे कीर्तयः स्थिरतामानञ्चुः॥ यतः--
आरोहन्ति सुखासनान्यपटवो नागान् हयाँस्तज्जुषस्ताम्बूलाधुपभुञ्जते नटविटाः खादन्ति हस्त्यादयः। प्रासादे चटकादयोऽपि निवसन्त्येते न पात्रं स्तुतेः, स स्तुत्यो भुवने प्रयच्छति कृती लोकाय यः कामितम्॥३॥
कलिकाले करालेऽस्मिन् सकलोपकारकाः कल्पद्रुमादयो लोकोपकारं न कुर्वन्ति, न च दृश्यन्ते, इन्द्रादयः सुखस्वादरसपर| वशाः, पूर्वजास्तु भोगीभृय सन्तानिनां पीडां कुर्वते, तैः सार्दू सत्पुरुषस्य उपमा न घटते, सम्प्रत्यसत्त्वात् , जलधरस्तु सकलधरा| तलललितलावण्यकारी, उक्तञ्च-"सम्प्रति न कल्पतरवो न सिद्धयो नापि देवता वरदाः । जलद! त्वयि विश्राम्यति सृष्टिरियं भुव| नकोशस्य ॥१॥" तेन सार्द्ध सत्पुरुषस्योपमा युक्ता, जलधरस्य सत्पुरुषेण सहोपमा विद्यते, तथापि सत्पुरुष उत्तम एव, यतः
स्फाति बन्धुसरांसि यान्तु पारतः कीर्तिश्रवन्त्यः स्फुरन्तूच्चैर्माद्यतु दीनदुईरकुलं विद्वन्मयूरैः सह । म्लायन्त्याशु जवासकाः खलजनाः स्वर्णाम्बुदानोद्यते, सत्पाथोमुचि विस्मयोऽयमिह मे मालिन्यगी न यत् ॥४॥
तिर्यक्षु सिंहादयो बले तुरङ्गास्तु शीघ्रगतौ भारोद्वहने वृषभाः दुग्धोत्पत्तौ गावः विषमे रणे राजद्वारे परमे लक्ष्मीविलासे | महास्वप्ने उच्चत्वे गजा एव श्लाघ्यन्ते, तैः सार्द्धमुपमानं सत्पुरुषस्याहोश्चिदाधिक्यं ?, आधिक्यमेव प्रतीमः, यतः
मा॥५४॥
ॐॐ