________________
कातन्त्र (सारस्वत ) विभ्रमे
1180 11
*
छ
त्यौकारः, स्रो०, अद्यौः सिद्धं । सर्वेषामिति, सर्वा चासौ ईषा च सर्वेषा ताम् २- १, ईषा सीते तद्दण्डपद्धती' इतिहैमाभिधाने । अन्येषां अपरेषां च सर्वेषांवत् शैयौ । कस्य ईषा केषा तां २-१ । कासामिति 'कासृ शब्दकुत्सायां' कास्, कासनं कासा, गुरोईसादि' (८-४-२०)त्यप्रत्ययः, 'आवतः खिया' ( ६-२-१) मित्या, २-१ | 'दंश दंशने' दंश, तुदादि हि:, अप्, 'अपि रजिदंशे' ति नलोपः, 'अत' इति हेलुकि दश इति सिद्धिः । एते एकवचनान्तत्वाद्विभ्रमविषयाः, चस्य समुच्चयार्थत्वं दर्श्यते – समुच्चयाच्चकारस्य, चक्र सम्बोधनं विना । अवस्था इति शब्दोऽपि स्यादेकवचनः कथम् ?, ॥ १ ॥ तेन चक्र इति आमन्त्रणैकवचनान्तप्रतिरूपकम्, बहुवचनान्तं तु वच्म:- डुकृञ् करणे' कृ, परोक्षे अ, द्विश्व, रः, 'कुहोश्चुः' (७-४-२६) 'ऋर' मिति रत्त्वे चक्रेति सिद्धम् । 'वस आच्छादने' वस्, अनद्यतने थास्, दिवादावद्, अप्, अदादेर्लुगित्यपो लुक्, स्वर०, स्रोः अवस्थाः ॥ १८ ॥
अगारं द्वे पदे स्यातां प्रथमान्तं शुनस्तथा । कर्तृरूपे कथं स्यातां दीयते धीयते तथा १ ॥ १९ ॥
अगारमिति गृहवाचि एकं पदं, द्वे पदे तु 'अग कुटिलायां गतौ' अग्, तुबा० हि, अप्, अतः, स्वर०, अग सिद्धं । 'ऋ गतौ' ऋ, अद्य० अम्, 'लित्पुषादे' (७-२-१५) रियप्रत्यये गुणे अटि आरं, अगारं सिद्धं, यद्वा 'इण गता' विति धातोर्दिवादीसपि भूते सिरिति सौ 'दादेः पे' (७-३-१० ) इणः सिलोपे गा इति कृते अटि अगाः, रमिति 'रः कामे तीक्ष्णे वैश्वानरे नरे । रामे वज्रे' इत्येकाक्षरोक्तेः रशब्दात् २- १, यद्वा अगशब्दात् सम्बुद्धौ अरमित्यत्यर्थं अगारमिति । शुनशब्दात्प्रथमैकवचने स्रो, यद्वा 'शुन गता' वित्यस्य शुनतीति 'नाम्युपधात्क' ( ८-१-५ ) इति के १-१ शुनः । 'डुदाञ् दाने' 'दाप् दाने' 'दो अवखण्डने ' 'देङ
समासामं बहुवचना भानि च
॥ ४७ ॥