SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ कातन्त्र . (सारस्वत) विभ्रमे ॥ ४४ ॥ दीर्घत्वे 'दिस्योर्हसादि' ति स्लोपः, 'रिलोपो दीर्घ' ति (२-४-१२) रलोपः, अताताः, अथवा 'तनूकरणे तन्' अत्यर्थ तनोति 'तनोतेर्ना वा' इति ( तनोतेर्वा ७-४-७५ ) नस्याचं, शेषं प्राग्वत् । न विद्यते मर्म यासां ता इति विग्रहे 'टाडका' इति (६-३-१५) डप्रत्यये 'आवतः स्त्रिया' ( ६-२-१) मित्यापि अममः १-३ रूपं, क्रिया तु 'मृद क्षोदे' मृद्, अत्यर्थं मृद्नाति यङ् लुक् द्विश्व रः 'ऋदुपधाना (रटि उपधायाः ७-४-३७) मिति ऋगागमः, अनद्यतने स् गुणः अर्, दकारस्य रच्त्वे 'दिस्योर्हसादि' ति सिपि लुप्ते 'रि लोपो दीर्घश्चे' ति अमर्मा इति सिद्धं । 'वट वेष्टने' वद्, अनद्यतने स् दिबादावद् अप् कर्त्तरीत्यप्, स्रो०, अवटः सिद्धं, 'वट परिभाषणे' इत्यस्य वा रूपं, अन्यथा तु 'अवटो गर्त्तः' । 'अनृणा' मिति, 'नॄञ नये' नृ, अनद्यतने अम्, 'ना क्रथादेः' ( ७-१-२०) 'प्वा देईस्व:' ( ७-४-९३ ) णत्वं, सवर्णे०, अद् अनृणामिति सिद्धम्, नृशब्दः नञ्पूर्वः न नरोऽनरस्तेषामिति स्याद्यन्तं । 'वर्फ रफ रिफ गतौ' रफ्, परोक्षेऽप्रत्ययः, द्विश्व, 'लोपः पचां कित्ये चास्ये' (७-४-४५ ) ति पूर्वलोपः अकारस्यैकहसस्यैकारः, स्वर० रेफ सिद्धं । 'जिष् विष् मिष् निष् पृष् वृष् सेचने' विष्, तुदादि हिः, 'अप्कर्त्तरी' त्यप् 'उपधाया लघो' रिति ( ७-४-६० ) गुणः, 'अत' इति (७-३-१३) हेर्लुक्, स्व०, वेष सिद्धं । केचित्तु ' वष हिंसाया' मित्यस्य णादिमध्यमपुरुषबहुत्वे वेषेत्याहुः, तदसत्, लोपः वचां कित्ये चास्येति सूत्रे चकाराद्वकारादित्वादेत्त्वपूर्व लोपयोरसम्भवात् । रविशब्दादामन्त्रणे सौ, यद्वा खशब्दस्य सप्तम्येकवचनान्तस्य स्याद्यन्तता, क्रिया तु 'रुड् रोषणे' रु, वर्त्त० ए, 'अप्कर्त्तरी' त्यप् गुणः, 'अदे' ( ७-३-१४ ) इत्यलोपः, अइ ए, खे सिद्धं । 'पि गतौ' पि इत्यस्माद्यङि लुकि द्वित्वे 'यी' ति ( ७-४-३४) पूर्वस्य गुणे गुण इति परस्य गुणे दिवादिसिप्प्रत्यये स्रोर्वि॰ अपेषेः, यद्वा 'पिसृ पेसृ वेसृ गतौ' पिस्, अत्यर्थं पेसति 'अतिशये हसादे' रिति यङ् 'वाऽन्यत्रे' ति यङ्लुकि स्याद्यन्ता भानि त्याद्यन्तानि ॥ ४४ ॥
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy