SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ कातन्त्र माइति वक्तव्यं, तेनाऽऽगमदित्यत्रालोपाभावः इति क्षेमेन्द्रवचनात् आगमः सिद्धम् । अनुजातः अनुजस्तस्य गृहमनुजगृहं ततः ७१ (सारस्वत स्याद्यन्तं, त्याद्यन्तं कथं ?, 'ग्रह उपादाने' ग्रह, णबादि ए द्विश्च 'णवादौ पूर्वस्येति' (८-४-३२) सम्प्रसारणं, रस्य ऋकारः, 'र' भानित्याविभ्रमे # इत्यः 'कुहोश्चुः' (७-४-२६) 'ग्रहाकिति चे ति (८-४-३१) द्वितीयसम्प्रसारणं, अनुपूर्वः अनुजगृहे सिद्धं । सह इना वर्त्तते इति है | धन्तानि ॥४॥ सेः, राज्ञः सेः संबुद्धौ इति स्याद्यन्तं, त्याद्यन्तं तु 'राज दीप्त्या' मिति धातोः सेप्रत्यये अपि राजसे सिद्धम् । 'हृञ् हरणे' तुबादि हौ अप्प्रत्यये गुणे 'अत' इति (७-३-१३ ) हे कि सिद्धं हर, अस्यैव धातोरुभयपदित्वाद्वर्त्तमाने एप्रत्यये हरे रूपं साधु, अव्ययमिति 'व्यञ् संवरणे' इत्यस्य दिवाद्यमिप्प्रत्यये अपि दिवादावडित्यटि, अयि व्यय गतावित्यस्य वा रूपम् ॥ एतानि न स्याद्यन्तानि, यस्य तस्याश्वमस्य च । शेलर्षिभीतको वेणुः, पञ्चेते स्म ऋणानि च ॥१३॥ 'एतानी' ति, यस्येत्यादीनि स्याद्यन्तत्त्वेन प्रसिद्धानि, तानि त्याद्यन्तानि कथमिति प्रश्नः, तत्र 'यस्ये' ति 'यस् प्रयत्ने हो &| दिवादेर्य इति यप्रत्यये हेलुकि सिद्धम् । एवं 'तस क्षये' तस्य 'अस् क्षेपणे' इत्यस्य अस्य रूपं, यथा पूर्व 'ओश्वि गतिवृद्धयो' रिति & धातोः अश्व इति रूपं निष्पादितं तथा अमि प्रत्यये अश्वमिति सिद्धम् । शेलुः श्लेष्मातक इत्यभिधानात् १-१ स्याद्यन्तं, त्याद्यन्तं |तु 'पल फल शल गतौ' शल्, यथा पेचुः तथा शेलुः सिद्धयति । बिभीतकः-प्रतीतः, त्याद्यन्तं तु 'जिभी भये' भी, वर्त० तस्, | अकर्त्तरीत्यप्, 'हादेश्चि' 'झपानां जबचपाः' 'हस्वः' विभीतः, 'अव्ययसर्वनाम्ना' मिति सूत्रे चकारादाख्यातेऽप्यक् । 'अण रण वण व्रण गतौ' वण् वा 'वण शब्द' इत्यस्य वेणुरिति प्रयोगो न भवति, बकारादीनां पूर्वलोपादेनिषेधात् , तस्माद् रेणुरिति पाठो
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy