SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ कातन्त्र (सारस्वत) विभ्रमे ॥ ३९ ॥ अस्यन्निति न शत्रन्तं, व्याघ्रा इत्यस्य चैकधा । बहुत्त्वं च तथैतेषामसुर्मेषारुरेव च ॥ १२ ॥ 'अस्यन्निति' शत्रन्तं इति तावत् 'असु क्षेपणे' अस् अस्यतीति 'शत्रुशाना' विति (८-२-१७) शतृप्रत्ययः दिवादेर्यः, अस्यन्, अशत्रन्तं तु 'षोऽन्तकर्म्मणि' षो, 'आदेः ष्णः स्नः' सो, दिवादिस्थः अन् प्रत्ययः, दिवादावद्, 'दिवादेर्यः' ( ७-१-१५) 'वो'रिति (७-४-७२) ओकारलोपः, 'अदे' (७-३-१४ ) इत्यलोपः अस्यन् सिद्धं । व्याघ्रा इति जसन्तं प्रसिद्धम्, एकत्वं पुनरित्थं'घ्रा गन्धोपादाने' घ्रा, दिवादि स्, भूते सिः दिवादावद्, विआङ्पूर्वः 'घ्रासाच्छाशाधेटा' मिति सिलोपः स्रो० व्याघ्राः सिद्धं । तथा एतेषां वक्ष्यमाणानां बहुत्त्वम्, असुः इति, असुशब्दः प्राणवाचकः १-१, बहुत्वं तु 'षोऽन्तकर्म्मणि' षो, दिवादि अन्, 'आदेः ष्णः स्नः', सो, 'भूते सि:' 'घासाच्छाशा धेटा' मिति सिलोपः, 'स्थाविद' (७-३-२१) इत्यन उस्, 'उस्यालोप' (७-३-३३) इत्यालोपः, स्वरहीनं, स्रो०, असुरिति सिद्धं, मेषेति मेषशब्दात् सम्बुद्धौ एकत्वं प्रसिद्धं, बहुत्त्वं तु 'कष शष जप झषे' त्यादि, मष हिंसायां मष्, परोक्षे अग्रे अ, द्विश्व 'लोपः पचां किस्ये चास्ये' ति पूर्वलोपः एकारः, मेष सिद्धम् । अरुष शब्दो मर्मवाची, 'दोषां रः' १ - १, बहुत्त्वं तु 'रा दाने' रा, अनद्यतने अन् प्रत्ययः, अप्, 'अदादेर्लुगि' (७-१-१३) त्यपो लुक्, 'स्याविद' (७-३-२१) इत्यन उस्, उस्यालोपः स्रो०, अरुः सिद्धम् ||१२|| पुनः समुच्चयाच्चस्य, शसन्तं पर्वतस्त्विति । आगमोऽनुजगृहे राजसे हरहरेऽ व्ययम् ॥ १ ॥ चकारस्यानुक्तसमुच्चयार्थत्वात् पर्वत इति द्वितीयाबहुवचनान्तं पर्व धातोः शतृप्रत्यये पर्वतशब्दात् २-३ पर्वतः, 'गम्लु गतौ' गम्, आङ्पूर्वः दिबादि स्, 'लित्पुषादेर्ड' (७-२-१५ ) इति अप्रत्ययः दिवादावद्, स्रो० 'गमां स्वरे' (७-४-६८) इत्यत्र न दे विभक्तिव्या त्ययवन्ति ॥ ३९ ॥
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy