________________
कातन्त्र (सारस्वत विभ्रमे ॥३८॥
'आतोऽनपी' (७-४-६९) त्याकारलोपे जगिः, जैगिमाचष्टे 'जिर्डित्करणे' इति (७-४-६) विप्रत्यये जगयति, जगयतीति किए लोपः131 जग्, जग् इवाचरति 'कर्तुर्यङि' ति (७-४-५) यङ्, यङ लोपः, तुवादिः आम जगाम इति रूपमनुक्तमपि प्रसङ्गादिह लिखितम् ॥
से विपरीतानि अधीये नोपसृष्टस्य, शक्यतीत्यस्य साधुता । जागति न जागतरुच्यतीतिं च साधुता ॥ ११ ॥
रूपाणि 'अधीये' इत्यादि, अधीये इति रूपं उपसृष्टस्य-उपसर्गसहितस्य 'इङ् अध्ययने' इ इडिकावध्युपसर्गतो न व्यभिचरतः इति है सदा अधिपूर्वः, वर्तमाने ए, 'नुधातो' रिति (३-४-२१) इय् स्वर० अधीये, किन्त्वन्यथा साध्यते, 'धीङ् अनादरे धी, अनद्य
|तने इ, दिवादावद्, 'दिबादेयः' (७-१-१५) 'अइ ए' (२-१-१५) अधीये, यद्वा 'डुधाञ् धारणपोषणयो' रित्यस्य धातोर्याक 8. प्रत्यये इ परे रूपं सिद्धम् । 'शक्ल शक्तौ इति धातोर्यकि प्रत्यये कृते शक्यते इति भाव्यम् , 'शक मर्षणे शक् , वर्तमाने तिप्प्रत्ययःद्र दिवादेय इति यः, शक्यति, यद्वा शक्य इवाचरति कत्तुङिति यङ्, लोपः, वर्तमाने तिप्, अप् कत्तरि इत्यप, अदादेर्लुक्, शक्यति रूपं सिद्धं । जागीति 'जाग निद्राक्षये' इत्यस्य प्रसिद्धं, तत्र नेदमस्येति पृच्छयते, 'गृ निगरणे गर्हितं गिरति 'अतिशये | हसादे' रिति (७-३-५७) यङ्, 'वाऽन्यत्रे ति (८-२-२७) यङ् लुक्, 'हादिवच्च द्रष्टव्य मित्युक्तत्त्वाद् द्वित्त्वं, 'र' इत्यकार:, 'कुहोश्चु रिति (७-४-२६ ) गस्य जः 'आत' इति (७-४-३५) दीर्घः, ऋकारान्तत्त्वान्न ऋगादयः, गुणः, जागर्ति । 'वच परिभाषणे' वच्, यक्, संप्रसारणे उच्यते इति भाव्यम् , साधुत्वं तु 'उच समवाये' उच्, वर्तमाने तिप्, दिवादेर्य इति य प्रत्यये सिद्धं उच्यति ॥ ११ ॥
१-जगिश्छान्दस इति हेमः २-त्यस्येतिद्विः