SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ कातन्त्र (सारस्वत) विभ्रमे ॥ ३५ ॥ सुखानि शीलानि नखान्यसानाः, खलानि पापानि बलान्यचर्चाः । पुराणि वर्षाणि मठान्यमीना, घनानि सर्वाणि बिलान्यपां च ॥ १० ॥ 'सुखानी 'ति, कथमेकत्वमित्यनुवर्त्तते, सुष्ठु - शोभनाः खानयो यत्र कुले तत् सुखानि १-१, यथा खनिशब्दस्तथा खानिशब्दोऽपि 'खनिः खानी' ति हैमलिंगानुशासनोक्तः, यद्वा सुखमिवाचरति 'कर्त्तर्यङ्' (७-४-५) अत्रार्थे क्विरपि वाच्य इति क्विप् प्रत्ययः, ‘वे’रिति(८-४-२७) विलोपे आनिप्प्रत्यये सुखानि, अथवा सु-शोभनं खं-छिद्रादि तदिवाचरतीति, अथवा 'अन प्राणने' अन् सुखपूर्वः, सुखेन अनितीत्येवंशीलं 'णिनिरतीते' इति णिन्प्रत्ययः, णित्त्वाद् वृद्धौ प्रथमैकवचने 'नपुंसकात् स्यमोलुगि 'ति (३-३-११) सेर्लुकि सुखानि, यद्वा सुखमानयति यत्कुलं तत् सुखानि, फलानीतिवत्साध्यं, पंचाथः। 'शील समाधौ ' उख नख णख वखे 'ति दण्डकधातुः, प्राग्वत्साध्यानि शीलानि नखानि । असास्ना इति न विद्यते सास्ना येषां तेऽसास्नाः 'सास्ना तु गलकम्बल' इत्यमरः इति भूम्नि प्रसिद्धं, एकत्वं तु 'ष्णा शौचे' ष्णा, 'आदेः ष्णः स्नः' 'निमित्ताभावे नैमित्तिकस्याभावः' इति स्ना, अत्यर्थ स्नाति 'अतिशये हसादेर्यङ 'द्विश्वे 'ति (७-३-५७) यङ्-प्रत्ययः, 'वाऽन्यत्रे' ति ( ८-२-२७) यङ्लुक्, द्वित्वं स्ना स्ना, 'पूर्वस्य हसादिः शेष' इति (७-४-२४) नकार लोपः, 'सधातु' (७-४-१०) रिति दिवादिगणगतसिप्प्रत्ययः स्, 'स्त्रोर्विसर्गः' असास्नाः । 'खल संचये' खल, आनिप्प्रत्यये अपि खलानि सिद्धं । 'पा पाने' पा, अत्यर्थं पिबति, अतिशये यङ्, 'वान्यत्रे' ति ( ८-२-२७)यङ् लुक् 'ह्वादिवच्च द्रष्टव्य' मिति वचनादप्प्रत्ययः, 'ह्वादेर्द्विश्व' (७-१-१४) त्यपो लुक् द्विश्व, तुवादिपरस्मैपदोत्तमपुरुषैकवचने आनिपि सिद्धं पापानि । 'बल प्राणधारणे' बल. आनिपि स्वाद्यन्ताभानि त्याद्यन्तानि ।। ३५ ।।
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy