________________
कातन्त्र
(सारस्वत) विभ्रमे
॥ ३० ॥
शब्दित' इत्युक्तत्वाद्यः दाता तस्यागः पर्वतो द्रुमश्र, इत्थमपि समाससम्भवः, पूर्व पर्व सर्व पूरणे पर्व अग्रे हि, अप् कर्त्तरी ७-१-१२) - त्यप् प्रत्ययः स्वरहीनं, तुह्योस्तातङ्ङनशिषि वे ( ) ति है : स्थाने तात् पर्वतात्, यद्वा 'अद भक्षणे' अद् तिप् प्रत्ययः 'अप् कर्त्तरी' त्यपू 'अदादेर्लुगि' (७-१-१३) त्यपो लुक्, अत्ति, पर्वतम् अत्तीति क्विप् क्विपो लोपः प्रथमैकवचनं सिः 'हसेपः सेर्लोपः' ( ३-२-३) 'वावसाने' (४-२-२७) पर्वतात्, यद्वा पर्वतमततीति, 'अत सातत्यगमने' इत्यस्मात् क्विप्, एवं वृक्षात्, घटादित्यादयो ज्ञेयाः ॥३॥
पंचडूलानि साधुत्वं कथं याति च लक्षणात् । मुनीनामिति नो षष्ठी, त्याद्यन्तं चाश्व इत्यपि ||४|| 'पंचलानी 'ति, अत्रापि प्रश्नार्थस्य सुगमत्वानिर्वचनं ब्रूमः, एवमुत्तरश्लोकेऽप्यूह्यं. पंचन् १-३ अग्रे षष् १-३ पंच षटू च पंचषाः, पंच वा षट् वा परिमाणमेषां 'टाडका' इति ( ६-३-१५) डप्रत्यये पंचपाः, पंचपानाचक्षते 'ञिर्डित्करणे' (७-४-६) इति ञिप्रत्ययः, डिस्चाट्टिलोपः, पंचषि अप कर्त्तरि गुणायादेशौ पंचषयन्तीति क्विप् प्रत्ययः, क्त्रिप् लोपे 'जे' रिति ( ७-४-७१ ) त्रिलोपे पञ्चष्, स्थित एव पञ्चष् १-३, अग्रे हलानि, पंचषां हलानि पञ्चङ्गुलानि, मध्ये 'पो डः' (४-४-५) ड्, अन्तवर्त्तिनीं विभक्तिमाश्रित्य पदान्तत्वं तस्माद् 'वाऽवसाने' (४-२-२७) अत्र हि वाशब्दस्य व्यवस्थितविकल्पार्थत्वाच्च पः ड्, ' हो झभाः ' इति ( २-३-४ ) हस्य ढः पञ्चलानि सिद्धं । मुनिः इनो यस्याः सा मुनीना तां मुनीनां यद्वा मुनीनां इना-स्वामिनी तां २-१ अश्त्र इत्यस्य स्याद्यन्तत्वं प्रसिद्धं, त्याद्यन्तत्वं कथमिति प्रश्नः, 'ओ श्वि गतिवृद्धयोः' श्वि दिवादिगणस्थः, सिपि प्र०स दिवादावाड (७-२-४) त्यद् 'लित्युषादे'| (७-२-१५) रित्यादिशब्दाद् ङः प्र०, श्वयतेः खादेशः प्रयोगवशात् स्वरहीनं 'स्रोर्विसर्गः' ( ४-४-९) अश्वः ॥४॥
१ भौवादिकः
२ त्यादिस्या| दिविवेकः श्लो. ५-६
॥ ३० ॥