________________
कातन्त्र (सारस्वत)
विभ्रारे
॥ २९ ॥
स्य-राज्ञः इभ्यः - ईश्वरः पार्थिवेभ्यः, अथवा इभी-हस्तिनी, पार्थिवस्य इभ्यो - हस्तिन्य इति प्रथमाबहुवचनं पार्थिवेभ्यः, एष गतौ, एषतीति एष् क्विप् लोपः, तृतीयैकवचने एषा अथवा नसे - नासिकायै हितं नस्यं, हितार्थे यप्रत्ययः, नञ्पूर्वः, न विद्यते नस्यं अस्येत्यनस्यं, श्वेवानस्यं श्वानस्यं तस्य सम्बोधनं हे श्वानस्य', यद्वा 'अण् प्राणने ' अन् अननं आनः, 'भावे घञ' (घञ् भावे ८-३-४) इ. तिघञ् प्रत्ययः ञित्वाद् वृद्धौ आन इति सिद्धं, शुनः आनः प्राणः श्वानः तस्य श्वानस्य, षष्ठीतत्पुरुषः, यद्वा ' षोऽन्तकर्म्मणि' षो ' आदेः ष्णः स्नः ' (७-४-७७) अग्रे हि, 'दिवादेर्य' (७-१-१५) इति यप्रत्ययः 'वो' रिति ( ७४-७२ ) ओकारलोपः, 'अत (७-३-१३) इति हेर्लुक् स्य, श्वान आमन्त्रणे, सिलोपः, हे श्वान स्य, श्वानशब्दस्याभिधानकोशोक्तस्य विषयतैव नास्ति, 'शुनः श्वानो गृहमृग' इति हैमः ||२||
भवेतामिति शब्दोऽयं, बहुत्वे वर्त्तते कथम् । यागः षष्ठीसमासः स्यात्, पञ्चमी पर्वतात् न तु ॥३॥
' भवेता ' मिति, प्रश्नार्थस्य सुगमत्वान्निर्वचनमेव निर्वच्मः, 'इण् गतौ' इ भवः पूर्वः, भवं संसारं यान्ति - गच्छन्ति इति क्विप ' हस्वस्य पिति कृति तुगि' (८-४-२२) ति तुक, विवत्त्वादन्ते क्विप् लोपः भवेत्, षष्ठीबहुवचने आमि भवेतामिति सिद्धं । इ:कामस्तस्य आगः, यद्वा ई:लक्ष्मीस्तस्या आगः - अपराधः यद्वा या लक्ष्मीस्तस्या अगः पर्वतः पादपो वा, यागः, त्रिष्वप्यर्थेषु षष्ठीतत्पुरुषः, यद्वा 'यस्तु वाते यमेऽपि चे 'त्येकाक्षरनिघण्टुवचनात् यः - यमस्तस्यागः - अपराधः यद्वा 'यमो यः कथितः शिष्टैर्यो दातरि च १ वा एषणं एष. २ विनाशे.
त्याद्यन्ता
भः स्यादिः श्लो. ३-४
॥ २९ ॥