________________
कातन्त्र (सारस्वत) विभ्रमे
नमः सरस्वत्यै।
श्रीकातन्त्र (सारस्वत) विभ्रमसूत्रं सवृत्तिकं लिख्यते.
प्रस्तावना
१ श्लोके डा१३ धातु
रूपाणि
॥ २७॥
नत्वा जिनेन्द्रं स्वगुरुंच भक्त्या, तत्सत्प्रसादाप्तसुसिद्विशत्या । सत्सम्प्रदायादवचूर्णिमेतां, लिखामि सारस्वतसूत्रयुक्त्या ॥१॥ प्रायः प्रयोगा दुर्जेयाः, किल कातन्त्रविभ्रमे ।। येषु मोमुह्यते श्रेष्ठः, शाब्दिकोऽपि यथा जडः॥२॥ कातन्त्रसूत्रविसरः खलु साम्प्रतं यत्, नातिप्रसिद्ध इह चातिखरो गरीयान् ।
स्वस्येतरस्य च सुवोधविवर्द्धनास्त्वित्थं ममात्र सफलो लिखनप्रयासः॥३॥ कस्य धातोस्तिबादीनामेकस्मिन् प्रत्यये स्फुटम् । परस्परविरुद्धानि, रूपाणि स्युस्त्रयोदश॥१॥ 'कस्ये त्यादि प्रश्नोत्र उत्तरं, गिरतरवपूर्वस्थानद्यतन्यामात्मने पदे मध्यमध्वमि सम्प्राप्ते रूपाणि स्युस्खयोदश, 'गृ निगरले' गृ अष्टसु स्थानेषु स्थाप्यः अवपूर्वः, अग्रे अनद्यतनध्वंप्रत्ययः, 'भूते सि' (७२-७) रिति सिः, इकारस्योचारणार्थत्वात् स् ,