________________
पुनः किं भूतो ? 'दयाया वशगः' दयेत्यनुग्रहोपलक्षणं, तेन दया-निरुपधि(निश्छल)परानुग्रहाशा, तस्याः वशगो-वशवीत्यनेन तस्य | परोपकृतिकृतिरसिकत्वमावेदितं, तथाविधस्य तु कियदेतदिति भावः, इति गाथार्थः ॥३४॥ अथाधिकृतप्रकरणसमर्थनस्वरूपं गाथाद्वयेनाह| इय सुय-सुयहरसम्मय, कइवयवयणेहिं पयरणं सुहियं । लिहियं सिहि-जलनिहि-गुह, मुह-विहि-वरिसे सुहरिरोणं ।३५|| | जुगवरजिणचंदाणं, आणं लहिऊण कयपमोयाणं । सुपमोयपयरएण य, गणिणा “जयसोम"नामेणं ॥३६॥
व्याख्या-'इय' इत्यमुना प्रकारेण 'युगवरजिनचन्द्राणां' युगे वरा:-प्रधानाः युगवरास्ते च ते जिनचन्द्राश्च श्रीमज्जिनचन्द्रसूरयस्तेषां 'आज्ञा'मादेश 'लब्ध्वा' समासाद्य "जयसोम"नाम्ना गणिना प्रकरणं 'लिखित'मक्षरविन्यासीकृतमिति सम्बन्धः, कैः साधनभूतैः ? 'श्रुतश्रुतधरसम्मतकतिपयवचनैः' श्रुतश्च-आगमः, श्रुतधराश्च-बहुश्रुताः श्रुतश्रुतधरास्तेषां सम्मतानि-संवादीनि कतिपयानि-कियन्ति यानि वचनानि तानि तथा, तैः, किम्भूतं प्रकरणं ? 'सुहितं'-अतिशयेन हितकारिः, कदैतल्लिखितमित्याह 'शिखि-जलनिधि-गुहमुख-विधि-वर्षे शिखिनो-चन्हयस्ते च कविसमयेन त्रयः, जलनिधयः-समुद्रास्तेऽपि लोकोक्त्या चत्वारः, गुहमुखानि-कार्तिकेयवदनानि. तानि च षट् , विधि-ब्रम्हा. स चैकः, तन्मिते वर्ष-शरदि, अङ्कानां वामगत्या १६४३ वर्षे, मुहर्षेणेति कविशेषणं ध्येयं, किम्भूतानां युगवरजिनचन्द्राणां ? 'कृतप्रमोदानां' कृतः प्रमोदो-हर्षो यैस्ते. तेषां, किम्भूतेन "जयसोम" नाम्ना गणिना ? 'सुप्रमोदपदरतेन' सुष्टु-अतिशयेन प्रमोदानांप्रमोदमाणिक्यगणीनां दयोः रत-आसक्तस्तथा, तेनेति गाथाद्वयार्थः। ३५-३६ । (जीर्णाजीर्णप्रतिद्वयेऽप्यष्टमगाथावृत्तौ नवाङ्केन ३६ अङ्काः) इति वाचनाचार्यश्रीप्रमोदमाणिक्यगणिचरणारविन्दचश्चरीककरणिपण्डित 'जयसोम"गणिना समर्थिता पौषध(पत्रिंशिका)पकरणवृत्तिः। ___ ग्रन्थकारप्रशस्तिः-श्रीमत्खरतरगच्छे, श्रीजिनमाणिक्यसूरिगुरुपट्टे । चन्द्रकुलाम्बरचन्द्रा, उदीयुरुदयाय जिनचन्द्राः।। सम्यक्परीक्षणाये,