________________
पौषधपत्रिशिका
॥ २८ ॥
पौषधत कार्यमित्येवंरूपमैदम्पर्य पौषधतिथिपरमार्थः, स 'कथितः' तत्मरूपक सिद्धान्ताक्षरसम्बद्ध वाक्यमबन्धविषयीकृतः, प्रकरणान्मयेत्यध्याहार्यः, केन साधनभूतेन ? 'स्वसमयानुसारेण' जैनागमपुरस्कारेणेत्यर्थः इत्यनेन स्वकपोलकल्पनाकल्पितत्वशङ्का दूरापास्ता द्रष्टव्या, ‘करणविधिः' प्रस्तावात्पौषधस्य विधानपद्धतिः पुनः 'जिनवल्लभकृत पौषधप्रकरणात' जिनवल्लभै - जिनवल्लभ नामधेयैः श्रीमन्नवाङ्गविवरण करणावाप्तशिष्टसंसन्मध्ययशोभूरिश्रीमदभयदेवसूरि चरणोपजीविश्रीमज्जिनवल्लभसूरिभिरिति यावत्, कृतं विहितं यत्पौषधप्रकरणं - पौषधव्रतविधानविधिप्रतिबद्धशास्त्रविशेषः, तस्माज्जनवल्लभ कृतपौषधप्रकरणात् ज्ञेय इत्यध्याहार्यमिति गाथार्थः ॥ ३३॥ अथ विबुधजनेष्वभ्यर्थनारूपां गाथामाहमइमंदयाइवसओ, जं लिहियं इह य आगमोत्तिष्णं । मइमं दयाइ वसओ, सोहेउ तयं सुहीवग्गो |३४|
व्याख्या- 'इहे'ति अस्मिन्प्रकरणे 'य' दिति सामान्यवाचकपद निर्देशाद निर्धारितस्वरूपं किमपीति वाच्यवाचकं 'आगमोत्तीर्ण' समतिक्रामितजिनागमं 'च' शब्दात्पूर्वाचार्यपारम्पर्योत्तीर्णे च 'लिखितं' अक्षरविन्यासीकृतं मयेत्यनुक्तमपि कर्त्तृवचनं निष्ठाप्रत्ययानुकूल्यादत्रावसेयं, आगमोत्तीर्णलिखने निदानमाह- कुतः ? ' मतिमन्दताssदिवशतः ' मतेर्या मन्दता-सकलागम परमार्थादर्शित्वेन कुण्डलं, सा आदिर्येषां प्रमादव्याकुलचेतस्त्वानां ते मतिमन्दतादयस्तेषां वश- आयत्तता. तस्मात् मतिमन्दता दिवशतः “पञ्चम्यास्त सिलु” (पा०५३।७२), इयता वाक्येन जानतो जिनागमोत्तीर्णवाचकत्वे सम्यक्त्वनाशात्पाराञ्चितप्रायश्चित्तमूलत्वमावेदितं भवतीति बोध्यं तदागमोत्तीर्णं 'सुधीवर्गः' मुटु-आगमपरिकर्मिता धी:- बुद्धिर्येषां ते सुधियस्तेषां वर्ग:-समूहः, स 'शोधयतु' तदपसारणेनैतत्प्रकरणं निरवद्यं करोत्विति प्रेरणाप्रत्ययोपादानं तस्य विशेषतः शोधनं प्रत्युपयोगप्रदर्शनपरं किम्भूतः सः ? 'मतिमान' मति त्रिकालविषयिणी धिषणा, सा विद्यते यस्मिन्नसौ, तस्यास्त्रिकालविषयित्वन्तु तथाविधज्ञानावरणीय कर्मक्षयोपशमसमुत्थौत्पातिक्यादिविशेषात् ननु कार्यकरणव्यासक्तत्वात्कथं सशोधयिष्यतीत्यत आह
खरतर जय सोमीया
॥ २८ ॥